दीपनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीपनः, पुं, (दीप्यते इति । दीप + ल्युः ।) मयूर- शिखा । (दीप + णिच् + ल्युः ।) शालिञ्चशाकः । इति शब्दचन्द्रिका ॥ कासमर्द्दः । पलाण्डुः । इति राजनिर्घण्टः ॥ दीपयितरि, त्रि ॥ (यथा, ऋतुसंहारे । १ । ३ । “सुवासितं हर्म्यतलं मनोरमं प्रियामुखोच्छासविकल्पितं मघु । सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥”)
