सामग्री पर जाएँ

दीपवृक्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दीपवृक्षः, पुं, (दीपस्य वृक्ष इव आधारः ।) दीपा- धारः । पिल्सुज् इति देलुका इति च भाषा । तत्पर्य्यायः । दीपतरुः २ ज्योत्स्नावृक्षः ३ । इति त्रिकाण्डशेषः ॥ दीपपादपः ४ । इति शब्दार्थ- कल्पतरुः ॥ (यथा, महाभारते । १२ । २०२ । ९ । “यथा प्रदीप्तः पुरतः प्रदीपः प्रकाशमन्यस्य करोति दीप्यन् । तथेह पञ्चेन्द्रियदीपवृक्षा ज्ञानप्रदीप्ताः परवन्त एव ॥”)

"https://sa.wiktionary.org/w/index.php?title=दीपवृक्षः&oldid=140423" इत्यस्माद् प्रतिप्राप्तम्