दीपान्विता
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीपान्विता, स्त्री, (दीपैरन्विता युक्ता ।) गौण- चान्द्रकार्त्तिकस्यामावास्या । यथा, भविष्य- पुराणम् । “येयं दीपान्विता राजन् ! ख्याता पञ्चदशी भुवि । तस्यां दद्यान्न चेद्दत्तं पितॄणां वै महालये ॥ पञ्चदशी अमावास्या । अमावास्यामधिकृत्य । दीपमालाश्च कर्त्तव्याः शक्त्या देवगृहेषु च । रथ्यापण्यश्मशानेषु नदीपर्व्वतसानुषु ॥ इति ब्रह्मपुराणोक्तनानास्थानदीपदानेन दीपा- न्विता ख्याता येयमिति विशेषणाच्च ।” इति श्राद्धतत्त्वम् ॥ * ॥ तत्र कर्म्माणि यथा, -- “प्रदोषसमये लक्ष्मीं पूजयित्वा यथाक्रमम् । दीपवृक्षास्तथा कार्य्या भक्त्या देवगृहेष्वपि ॥ चतुष्पथे श्मशानेषु नदीपर्व्वतसानुषु । वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च ॥ वस्त्रैः पुष्पैः शोभितव्याः क्रयविक्रयभूमयः । दीपमालापरिक्षिप्ते प्रदोषे तदनन्तरम् ॥ ब्राह्मणान् भोजयित्वादौ विभज्य च बुभुक्षि- तान् । अलङ्कुतेन भोक्तव्यं नववस्त्रोपशोभिना ॥ स्निग्धैर्मुग्धैर्विदग्धैश्च बान्धवैर्भृतकैः सह ॥” इति तिथितत्त्वम् ॥ तत्र श्यामापूजाप्रमाणं यथा, -- “दीपान्विता पार्व्वणाय स्मृता काल्यर्च्चनाय च महानिशि द्बितीयं स्यात् पूर्ब्बेद्युर्व्याप्त्यनाप्तयोः महानिशि व्याप्त्यनाप्तयोः पूर्ब्बेद्युरेव द्वितीयं काल्यर्च्चनं स्यात् इत्यर्थः । प्रथमं पार्व्वणं द्बितीयं काल्यर्च्चनमिति द्बितीयशब्दस्य तात्पर्य्यार्थः ।” इति स्मृतिसारसंग्रहधृतव्योमकेशतन्त्रम् ॥ * ॥ अपरञ्च । “दीपोत्सर्गचतुर्द्दश्या संमिश्रा या भवेत् कुहूः । तस्यां या तामसी रात्रिः सोच्यते कालरात्रिका ॥ तस्यां पूजा प्रकर्त्तव्या काली तारा प्रियङ्करी ॥” इति कालीकुलसद्भावः ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीपान्विता¦ f. (-ता) A festival: see the next. E. दीप, and अन्वित having.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीपान्विता/ दीपा f. (sc. तिथि)" furnished with lamp " , N. of the Diwali festival BhavP.
