दीप्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीप्तः, पुं, (दीप + क्तः ।) निम्बुकः । सिंहः । इति राजनिर्घण्टः ॥ (नासागतरोगविशेषः । यथा, सुश्रुते उत्तरतन्त्रे २२ अध्याये । “घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः । नासा प्रदीप्तेव च यस्य जन्तो- र्व्याधिस्तु तं दीप्तमुदाहरन्ति ॥” अस्य प्रतिषेधमाह तत्रैव २३ अध्याये । “दीप्ते रोगे पैत्तिकं संविधानं कुर्य्यात् सर्व्वं स्वादु यच्छीतलञ्च ॥”)
दीप्तः, त्रि, (दीप + क्तः ।) निर्भासितः । दग्धः । ज्वलितः । इति मेदिनी । ते, २५ ॥ (यथा, हरिवंशे । १६८ । ३ । “ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः । दीप्तायां दिशि भाषन्तो भयमावेदयन्ति मे ॥”)
