दीप्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीप्यः, पुं, (दीपाय अग्निदीपनाय हितमिति । दीप + “तस्मै हितम् ।” ५ । १ । ४ । इति अपूपादित्वात् पक्षे यत् ।) यमानी । (अस्य पर्य्यायो यथा, -- “यमानी दीप्यको दीप्यो भूतिकश्च यमानिका ॥” इति वैद्यकरत्नभालायाम् ॥) जीरकः । इति राजनिर्घण्टः ॥ (दीपाय साधु- रिति । दीप + “तत्र साधुः ।” ४ । ४ । ९८ । इति यत् ।) मयूरशिखा । रुद्रजटा इति ख्याता । इत्यमरः । २ । ४ । १११ ॥
