दीर्घः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीर्घः, पुं, (दॄ + बाहुलकात् घङ् ।) लताशाल- वृक्षः । (यथा, वैद्यकरत्नमालायाम् । “तार्क्ष्योऽश्वकर्णः कुशिको बल्यो दीर्घो लता- द्रुमः ॥”) इत्कटः । इति रत्नमाला ॥ रामशरः । उष्ट्रः । इति राजनिर्घण्टः ॥ पञ्चमषष्ठसप्तमाष्टमराशयः । यथा । वृश्चिककन्यामृगपतिवणिजो दीर्घाः । इति ज्योतिषतत्त्वम् ॥ द्विमात्रवर्णः । तद्यथा । आ ई ऊ ॠ ए ऐ ओ औ । गुरुवर्णः । इति व्याकरणम् ॥ (दीर्घलक्षणं यथा, -- “एकमात्रो भवेद्ध्रस्वो द्बिमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनञ्चार्द्धमात्रकम् ॥”)
