दीर्घपत्रा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीर्घपत्रा, स्त्री, (दीर्घपत्र + टाप् ।) चित्रपर्णिका । चाकुलियाभेदः । (यथा, भावप्रकाशस्य पूर्ब्ब- खण्डे प्रथमे भागे । “शालिपर्णी स्थिरा सौम्या त्रिपर्णी पीरवी गुहा । विदारिगन्धा दीर्घाङ्गी दीर्घपत्रांशुमत्यपि ॥”) ह्रस्वजम्बुः । इति रत्नमाला ॥ गन्धपत्रा । केतकी । डोडीक्षुपः । इति राजनिर्घण्टः ॥ (चिञ्चापरपर्य्याय उद्भिद्भेदः । यथा, भाव- प्रकाशे पूर्ब्बखण्डे प्रथमे भागे । “चिञ्चा चञ्चुश्चञ्चुकी च दीर्घपत्रा सतिक्तका ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दीर्घपत्रा¦ स्त्री दीर्घं पत्रं यस्याः।
१ चित्रपर्णिकायां (चाकु-लिया) भेदे
३ ह्रस्वजम्बुवृक्षे रत्नमाला
३ गन्धपत्रायां
४ केतक्यां
५ टोरीवृक्षे च राजनि॰। गौरा॰ ङीष दीर्घपत्री
६ पलाशीलतायां
७ महाचञ्च शाके स्त्री राजनि॰।
