सामग्री पर जाएँ

दीर्घसत्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दीर्घसत्रम्, क्ली, (दीर्घं बहुकालसाध्यं सत्रम् ।) यज्ञविशेषः । (यथा, भागवते । १ । १ । २१ । “कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् । आसीना दीर्घसत्रेण कथानां स्रक्षणा हरेः ॥”) तीर्थविशेषः । इति शब्दार्थकल्पतरुः ॥ (यथा, महाभारते । ३ । ८२ । १०३ -- १०४ । “ततो गच्छेत राजेन्द्र ! दीर्घसत्रं यथाक्रमम् । तत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः । दीघसत्रमुपासन्ते दीक्षिता नियमव्रताः ॥ गमनादेव राजेन्द्र ! दीर्घसत्रमरिन्दम ! । राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दीर्घसत्रम्&oldid=140600" इत्यस्माद् प्रतिप्राप्तम्