सामग्री पर जाएँ

दीर्घायुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दीर्घायुः, [स्] पुं, (दीर्घं आयुर्यस्य ।) शाल्मलि- वृक्षः । काकः । जीवकवृक्षः । मार्कण्डेयः । चिरजीविनि, त्रि । इति मेदिनी । से, ५५ ॥ (यथा, महाभारते । ७ । ५७ । १४ । “दीर्घायुषः प्रजाः सर्व्वा युवा न म्रियते तदा ॥”) “तत्र महापाणि-पाद-पार्श्वपृष्ठस्तनाग्रदशन- वदनस्कन्धललाटं दीर्घाङ्गुलिपर्व्वोच्छ्वासप्रेक्षण- बाहुं विस्तीर्णभ्रूस्तनान्तरोष्कं ह्रस्वजङ्घामेढ्रग्रीवं गम्भीरसत्त्वस्वरनाभिमनुच्चैर्बद्धस्तनमुपचितमहा- रोमशकर्णं पश्चान्मस्तिष्कं स्नातानुलिप्तं मूर्द्धानु- पूर्ब्ब्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाण- हृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति ।” “गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः । उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते ॥ गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते । शरीरज्ञानविज्ञानैः स दीर्घायुः समासतः ॥” इति सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=दीर्घायुः&oldid=140612" इत्यस्माद् प्रतिप्राप्तम्