सामग्री पर जाएँ

दुःखम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दुःखम्, क्ली, (दुर् दुष्टं खनतीति । खन + डः । यद्वा, दुःखयतीति । दुःख + पचाद्यच् ।) संसारः । इति त्रिकाण्डशेषः ॥ (रोगः । यथा, भावप्रकाशे अर्शोरोगाधिकारे । “भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः ॥” “दुःखै रोगैः ।” इति तट्टीका ॥) मनोधर्म्म- विशेषः । न्यायमते आत्मगुणभेदः । तत् अधर्म्म- जन्यं सचेतसां प्रतिकूलम् । इति भाषापरि- च्छेदः ॥ तत्पर्य्यायः । पीडा २ वाधा ३ व्यथा ४ अमानस्यम् ५ प्रसूतिजम् ६ कष्टम् ६ कृच्छ्रम् ८ आभीलम् ९ । इत्यमरः । १ । १० । ३ ॥ अर्त्तिः १० आर्त्तिः ११ पीडनम् १२ अवाधा १३ वाध- नम् १४ आमनस्यम् १५ आमानस्यम् १६ विवा- धनम् १७ पीडितम् १८ विहेठनम् १९ । इति शब्दरत्नावली ॥ * ॥ “सुखं दुःखञ्च हर्षञ्च शोकञ्च मङ्गलालयम् । मया दत्तञ्च तत्त्वञ्च योगिनामपि दुर्लभम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ * ॥ (दुःखन्तु आध्यात्मिकाधिदैविकाधिभौतिकभेदात् त्रिविधम् । यदुक्तं तत्त्वकौमुद्याम् । “दुःख- त्रयाभिघातात् ।” इति । “दुःखानां त्रयं दुःखत्रयं तत् खलु त्रिविधं आध्यात्मिकमाधिभौतिकमाधिदैविकञ्च । तत्र आध्यात्मिकं द्विविधं शारीरं मानसञ्च । शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं कामक्रोधलोभमोहभयेर्षाविषादविषयाविशेषा- दर्शननिबन्धनम् । सर्व्वं चैतदान्तरोपायसाध्यत्वा- दाध्यात्मिकं दुःखम् । वाह्योपायसाध्यञ्च दुःखं द्वेधा आधिभौतिकमाधिदैविकञ्च । तत्र आधि- भौतिकं मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं यक्षराक्षसविनायकग्रहावेश- निबन्धनम् । तदेतत्प्रत्यात्मवेदनीयं दुःखं रजः- परिणामभेदी न शक्यते प्रत्याख्यातुम् । तदनेन दुःखत्रिकेणान्तः करणवर्त्तिना चेतनाशक्तेः प्रति- कूलतयाभिसम्बन्धोऽभिघातः इति । एतावता प्रतिकूलवेदनीयत्वं जिहासाहेतुरुक्तः ॥”) “दुःखमेवं प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ! । उचितेनोपचारेण दुःखं मोक्षविनाशनम् ॥ अहङ्कारकृतो नित्यं नरो मोहेन चावृतः । ये मां नैव प्रपद्यन्ते ततो दुःखतरन्नु किम् ॥ सर्व्वाशी सर्व्वविक्रेता नमस्कारविवर्ज्जितः । ये च मां न प्रपद्यन्ते ततो दुःखतरन्नु किम् ॥ सर्व्वान्नानि तु सिद्धानि पाकभेदन्तु कारयेत् । अवैश्वदेवं नरोऽश्नन्ति तत्र दुःखतरन्नु किम् ॥ प्राप्तकाले वैश्वदेवे दृष्टमतिथिमागतम् । अदत्त्वा तस्य यो भुड्क्ते तत्र दुःखतरन्नु किम् ॥ असन्तुष्टस्तु वैषम्ये परदाराभिमर्द्दकः । परोपतापी मन्दात्मा तत्र दुःखतरन्नु किम् ॥ अकृत्वायुर्ब्बलं कर्म्म गृहे संवसते नरः । मृत्युकालवशं प्राप्तस्तत्र दुःखतरन्नु किम् ॥ हस्त्यश्वरथयानानि गच्छमानानि पश्यति । न वै तस्याग्रतः पृष्ठे तत्र दुःखतरन्नु किम् ॥ अश्नन्ति पिशितं केचित् घृतशालिसमन्वितम् । शुष्कान्नं केचिदश्नन्ति तत्र दुःखतरन्नु किम् ॥ वरवस्त्रावृतां शय्यां समासेवन्ति भूषिताः ॥ केचित् तृणेषु शेरन्ते ततो दुःखतरन्नु किम् ॥ विद्बान् कृती गुणज्ञश्च सर्व्वशास्त्रविशारदः । केचिन्मूकात्र दृश्यन्ते तत्र दुःखतरन्नु किम् ॥ विद्यमाने वने केचित् कृपणा भोगवर्जिताः । दरिद्रो जायते दाता तत्र दुःखतरन्नु किम् ॥ पुरुषस्य द्वये भार्य्ये तयोरेकां प्रशंसयेत् । एकापि दुर्भगा तत्र ततो दुःखतरन्नु किम् ॥ लब्ध्वा तु मानुषीं संज्ञां पञ्चभूतसमन्विताम् । मामेव न प्रपद्यन्ते ततो दुःखतरन्नु किम् ॥ लब्ध्वा ब्राह्मणभावन्तु त्रयो वर्णाः सुमध्यमे ! । पापकर्म्मरता ह्यासंस्ततो दुःखतरन्नु किम् ॥ एतत्ते कथितं भद्रे ! दुःखकर्म्म विनिश्चयम् । सर्व्वभूतहितार्थाय यत्त्वया परिपृच्छ्यते ॥” इति वराहपुराणम् ॥ * ॥ दुःखदानि यथा, -- पारतन्त्र्यम् १ आधिः २ व्याधिः ३ मानच्युतिः ४ शत्रुः ५ कुभार्य्या ६ नैःस्वम् ७ कुग्रामवासः ८ कुस्वामिसेवनम् ९ बहुकन्या १० वृद्धत्वम् ११ परगृहवासः १२ वर्षाप्रवासः १३ भार्य्याद्वयम् १४ कुभृत्यः १५ दुर्हलकरणककृषिः १६ । इति कविकल्पलता ॥ (तद्बिशिष्टे, त्रि । इत्यमरः । १ । ४ । २६ ॥ यथा, हरिवंशे । २२३ । ४९ । “सुसुखा न च दुःखा सा न शीता नच घर्म्मदा ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

DUḤKHA(M) : Agni Purāṇa tells the following about the origin of Duḥkham.

Hiṁsā (violence) is the wife of Adharma (unrighteous- ness). To the couple were born two daughters called Anṛta (falsehood) and Nikṛta (fraud) and from them were born the daughters Bhayā (fear) Naraka (hell) Māyā (illusion) and Vedanā (pain). Māyā brought forth Mṛtyu (death), the annihilator of all living objects, and Vedanā, from Raurava (a particular hell) brought forth Duḥkha (sorrow, grief). From Mṛtyu were born Jāti (caste), Jarā (wrinkles), Śoka (sorrow), Tṛṣṇā (covetouseness) and Krodha (anger). (Agni Pu- rāṇa, Chapter 19).


_______________________________
*4th word in left half of page 253 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दुःखम्&oldid=430866" इत्यस्माद् प्रतिप्राप्तम्