दुग्धपाषाणः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुग्धपाषाणः, पुं, (दुग्धं क्षीरं पाषाण इव कठिनं यस्य ।) वृक्षविशेषः । शिरगोला इति भाषा । तत्पर्य्यायः । दुग्धपाषाणकः २ दुग्धाश्मा ३ क्षीरी ४ गोमेदसन्निभः ५ वज्राभः ६ दीप्तिकः ७ दुग्धी ८ क्षीरक्षवः ९ । अस्य गुणाः । रुच्यत्वम् । ईषदुष्णत्वम् । ज्वरपित्तहृद्रोगशूलकासाध्मान- विनाशित्वञ्च । इति राजनिर्घण्टः ॥
