सामग्री पर जाएँ

दुन्दुभिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दुन्दुभिः, पुं, (दुन्दु इत्यव्यक्तशब्देन भातीति । भा + बाहुलकात् किः ।) बृहड्ढक्का । तत्- पर्य्यायः । भेरी २ आनकः ३ । इत्यमरः । १ । ७ । ६ ॥ (यथा, महाभारते । १ । १२३ । ४६ । “आकाशे दुन्दुभीनाञ्च बभूव तुमुलः स्वनः ॥”) वरुणः । दैत्यभेदः । इति मेदिनो । भे, १६ । (दानवविशेषः । यथा, हरिवंशे । ३ । ८१ । “अभवन् दनुपुत्त्राश्च शतं तीव्रपराक्रमाः ।” “शङ्कुकर्णो विदारश्च गवेष्ठो दुन्दुभिस्तथा ॥”) रक्षोभेदः । वाद्यभेदः । इति शब्दरत्नावली ॥ विषम् । इति हेमचन्द्रः । २ । २०७ ॥ (कुकुर- वंशीयस्य अन्धकस्य पुत्त्रः । यथा, भागवते । ९ । २४ । २० । “अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्व्वसुः ॥” क्रौञ्चद्बीपाधिपतेर्द्युतिमतः पुत्त्राणामन्यतमः । क्रौञ्चद्बीपस्य देशभेदश्च यथा, ब्रह्माण्डे ३६ अध्याये । “मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै । तेषाञ्च नामभिर्देशाः क्रौञ्चद्बीपाश्रयाः स्मृताः ॥” “मुनेस्तु मुनिर्देशो वै दुन्दुभेर्दुन्दुभिः स्मृतः ॥” पर्व्वतविशेषः । यथा, मत्स्यपुराणे । १२१ । १३ । “स एव दुन्दुभिर्नाम श्यामपर्व्वतसन्निभः । शब्दमृत्यः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः ॥” असुरविशेषः । यथा, रामायणे । ४ । ९ । ४ । “मायावी नाम तेजस्वी पूर्ब्बजो दुन्दुभेः सुतः । तेन तस्य महद्बैरं बलिनः स्त्रीकृतं पुरा ॥”)

दुन्दुभिः, स्त्री, अक्षः । पाशकः । इत्यमरः । ३ । ३ । १३५ ॥ अक्षे पाशकविषये दानविशेषो वित्ति इति ख्यातः । इति केचित् ॥ अक्षविन्दु- त्रिकद्वयम् । इति रभसः ॥ विन्द्वन्वितचतुष्पार्श्व- स्वर्णशृङ्गादिमयद्यूतोपकरणं पाशटी इति ख्याता । इति केचित् ॥ इति तट्टीकायां भरतः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दुन्दुभिः [dundubhiḥ], m. f.

A sort of large kettle-drum, drum; विजयदुन्दुभितां ययुरर्णवाः R.9.11. -m.

An epithet of Viṣṇu.

Of Kṛiṣṇa.

a kind of poison.

N. of a demon slain by Vāli. (When Sugrīva showed to Rāma the skeleton of this demon to show him how powerful Vāli was, Rāma kicked it with but a gentle force, and threw it many miles away).

N. of Varuṇa.

N. of the 56th year in the cycle of संवत्सरs.

(f.) A pair of three spots on a die. दुन्दुभिर्दैत्यभेदे च वाद्ये वर्षे त्रिकद्वये Nm.

"https://sa.wiktionary.org/w/index.php?title=दुन्दुभिः&oldid=298589" इत्यस्माद् प्रतिप्राप्तम्