दुराचारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुराचारः, पुं, (आचर्य्यते इति भावे घञ् । दुर्दुष्ट आचारः इति प्रादिसमासः ।) विरुद्धा- चरणम् । यथा, अध्यात्मरामायणे । “प्राप्ते कलियुगे घोरे नराः पुण्यविवर्ज्जिताः । दुराचाररताः सर्व्वे सत्यवार्त्तापराङ्मुखाः ॥” (दुष्ट आचारो यस्य ।) निन्दिताचारवति, त्रि ॥ (यथा, देवीभागवते । १ । ११ । १६ । “महापातकयुक्तस्त्वं दुराचारोऽतिगर्हितः ॥”)
