सामग्री पर जाएँ

दुराधर्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दुराधर्षः, पुं, (दुष्टान् यज्ञविघ्नकारिराक्षसादीन् आधर्षति दूरीकरोतीति । धृष् + अच् ।) गौर- सर्षपः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । २२ । “अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ।” “दैत्यादिभिर्धर्षयितुं न शक्यते इति दुराधर्षः ।” इति तद्भाष्ये शङ्करः ॥ दुःखेन आ ईषदपि धर्षयितुमशक्यः इति । धृष् + “ईषद्दुःसु- ष्विति । ३ । ३ । १२६ । इति खल् ।) अधर्ष- णीये, त्रि ॥ (यथा, महाभारते । ६ । १९ । ३२ । “भीमसेनो गदां भीमां प्रवार्षन् परिघोपमाम् । प्रचकर्ष महासैन्यं दुराधर्षो महामनाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दुराधर्षः&oldid=140712" इत्यस्माद् प्रतिप्राप्तम्