दुरालभा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुरालभा, स्त्री, (दुःखेन आलभ्यते गृह्यते स्पृश्यते वासौ । दुर् + आ + लभ + खल् + टाप् । आगमविधेरनित्यत्वात् न नुम् ।) स्वनामख्यात- कण्टकयुक्तक्षुद्रवृक्षविशेषः । स यवासप्रभेदः । हिङ्गुथा इति ख्याता । तत्पर्य्यायः । दुरालम्भा २ धन्वयासः ३ ताम्रमूला ४ कच्छुरा ५ दुस्पर्शा ६ धन्वी ७ धन्वयवासकः ८ प्रबोधनी ९ सूक्ष्म- दला १० विरूपा ११ दुरभिग्रहा १२ दुर्लभा १३ दुःप्रधर्षा १४ । इति राजनिर्घण्टः ॥ यासः १५ यवासः १६ दुस्पर्शः १७ कुनाशकः १८ रोदनी १९ अनन्ता २० समुद्रान्ता २१ । इत्य- मरः । २ । ४ । ९२ ॥ गान्धारी २२ काषाया २३ । इति भावप्रकाशः ॥ धनुर्यासः २४ युवसः २५ कच्छरा २६ । इति शब्दरत्नावली ॥ विक- ण्ठकः २७ । इति जटाधरः ॥ (पद्ममुखी २८ । इति शब्दचन्द्रिका ॥) अस्या गुणाः । सार- दत्वम् । ज्वरच्छर्द्दिश्लेष्मपित्तविसर्पवेदनानाशि- त्वञ्च । इति राजवल्लभः ॥ कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । क्षारत्वम् । अम्लत्वम् । मधुरत्वम् । वातगुल्मप्रमेहनाशित्वञ्च । इति राजनिर्घण्टः ॥ “यवासस्य गुणैस्तुल्या बुधैरुक्ता दुरालभा ॥” इति भावप्रकाशः ॥ (गङ्गा । यथा, काशीखण्डे । २९ । ८८ । “दीर्घव्रता र्दीर्घदृष्टिर्दीप्ततोया दुरालभा ॥”) दुरालभनीये, त्रि ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुरालभा स्त्री।
धन्वयासः
समानार्थक:यास,यवास,दुःस्पर्श,धन्वयास,कुनाशक,रोदनी,कच्छु,अनन्ता,समुद्रान्ता,दुरालभा
2।4।92।1।5
रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा। पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुरालभा(म्भ)¦ स्त्री दुःखेनालभ्यते स्पृश्यते असौ दुर् + आ +लभ--खल् आगमविधेरनित्यात्वात् वा मुम्। (आलकुशी)
१ लतायाम् राजनि॰।
“दुरालभा कटुस्तिक्ता क्षारोष्णामधुराम्लिका। वातगुल्मप्रमेहाणां नाशिनी परिकी-र्तिता” राजनि॰।
“यवासस्य गुणैस्तुत्या बुधैरुक्तादुरालभा” भावप्र॰
२ दुःस्पर्शनीयमात्रे त्रि॰।
“चूर्णंश्यामा त्रिवृन्नीली कट्वी मुस्ता दुरालभा” सुश्रु॰
“तीक्ष्ण-वीर्य्यास्तु भूतानां दुरालम्भाः सकण्टकाः” भा॰ अनु॰
९८ अ॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुरालभा¦ f. (-भा) A prickly nightshade. E. दुर् difficult, लभ् to gain, affix खल् but without any nasal.