दुर्गः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्गः, पुं, असुरभेदः । यं हत्वा चण्डिकाया दुर्गेति नामाभूत् । इति काशीखण्डम् ॥ (यथा, हरि- वंशे । १६४ । ९ । “बिन्ध्यवासिनीं दुर्गघ्नीं रणदुर्गां रणप्रियाम् ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ९६ । “दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥”) गुग्गुलुः । इति राजनिर्घण्टः ॥ (दुःखेन गम्यते अत्रेति । दुर् + गम् + अधिकरणे डः ।) दुर्गगे, त्रि । इति मेदिनी । गे, ९ ॥
