दुर्गतिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्गतिः, स्त्री, (दुष्टा क्लेशदायिनी गतिः ।) नरकः । इत्यमरः । १ । ९ । १ ॥ (यथा, देवीभागवते । ३ । १२ । ६८ । “कृत्वा यज्ञं विधानेन दत्त्वा पुण्यं मखार्ज्जितम् । समुद्धर महाराज ! पितरं दुर्गतिं गतम् ॥”) दारिद्रम् । इति मेदिनी । ते, ११५ ॥ (यथा, महाभारते । १३ । ७० । ८ । “कथं भवान् दुर्गतिमीदृशीं गतो नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ॥”)
