दुर्गन्धः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्गन्धः, पुं, (दुष्टो गन्धः ।) दुष्टगन्धः । तत्- पर्य्यायः । पूतिगन्धिः २ । इत्यमरः । १ । ५ । १२ ॥ (यथा, सुश्रुते । १ । ३० । “सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् । यो वा गन्धान्न जानाति गतासुं तं विनिर्द्दि- शेत् ॥”) आम्रवृक्षः । इति शब्दचन्द्रिका ॥ पलाण्डुः । इति भावप्रकाशः ॥ (दुर्दुष्टो गन्धो यत्र ।) दुष्टगन्धयुक्ते, त्रि ॥ (यथा, मार्कण्डेये । ८ । ८१ । “अथाजगाम त्वरितो धर्म्मश्चाण्डालरूपधृक् । दुर्गन्धो विकृतो रूक्षः श्मश्रुलो दुन्तुरो घृणी ॥”)
