सामग्री पर जाएँ

दुर्गमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दुर्गमः, त्रि, (दुर्दुःखेन गम्यते इति । दुर् + गम + “ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।” ३ । ३ । १२६ । इति खल् ।) दुर्गः । दुःखेन गमनीयस्थानादि । इति शब्दमाला ॥ (यथा, महाभारते । ६ । १४ । ३५ । “पार्श्वतःकेऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम् ॥” दुर्दुःखेन गम्यते ज्ञायते इति । दुर्ज्ञेयः । यथा, गहाभारते । १३ । १४ । २९५ । “नमो वृषभवाहाय गजेन्द्रगमनाय च । दुर्गमाय नमस्तुभ्यमगम्यगमनाय च ॥” पुं, विष्णुः । यथा, तत्रैव । १३ । १४९ । ९६ । विष्णुसहस्रनामकीर्त्तने । “दुर्ल्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥” असुरविशेषः । यथा, मार्कण्डेये । ९१ । ४४ । “तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरन् ॥” क्ली, वनम् । सङ्कटस्थलम् । यथा, महाभारते । १ । ८१ । ३० । “राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दुर्गमः&oldid=140755" इत्यस्माद् प्रतिप्राप्तम्