दुर्गानवमी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्गानवमी, स्त्री, (दुर्गायाः पूजोपलक्षिता नवमी ।) कार्त्तिकशुक्लनवमी । सा त्रेतायुगाद्या । तत्र जगद्धात्रीपूजा कर्त्तव्या । यथा, योगिनीतन्त्रे । “कार्त्तिकेऽमलपक्षे तु नवम्याञ्च विशेषतः । प्रगल्भाञ्च जगद्धात्रीं पूजयेद्दीपमालया ॥ तन्त्रान्तरे । ‘त्रिकालं पूजयेद्दुर्गां मनुनैकाक्षरेण च । नानाबलिविधानेन गीतवाद्यपुरःसरम् ॥ कार्त्तिकस्य सिते पक्षे नवम्याञ्च विशेषतः । कृत्वैवं साधकश्रेष्ठो लभेद्राज्यमकण्टकम् ॥’ कुब्जिकातन्त्रे । ‘कार्त्तिके शुक्लपक्षे तु नवम्यां जगदम्बिकाम् । दुर्गां प्रपूजयेद्भक्त्या धर्म्मकामार्थसिद्धये ॥’ शक्तिसङ्गमतन्त्रे । ‘कार्त्तिकस्य सिते पक्षे नवम्यां जगदीश्वरीम् । त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत् ॥ निर्म्माय प्रतिमां शक्त्या जगद्धात्र्या विधानतः । पूजयित्वा परदिने प्रतिमां तां विसर्जयेत् ॥ एवं कृत्वा चक्रवर्त्ती भवेत् साधकसत्तमः । पुत्त्रपौत्त्रधनैश्वर्य्यसंयुतास्य भवेत् पुरी ॥ दासदासीगणैर्युक्तो मुक्तः स्यात् पापसङ्कटात् । विशेषतो षसुयुतां नवमीं प्राप्य साधकः । पूजयित्वा मृण्मयीं तां लभते वाच्छितं फलम् ॥’ भविष्ये । ‘मासैश्चतुर्भिर्यत् पुण्यं विधिना पूज्य चण्डिकाम् । तत् फलं लभते वीर ! नवभ्यां कार्त्तिकस्य च ॥” इति तिथितत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्गानवमी¦ स्त्री दुर्गाप्रिया तत्पूजाङ्गत्वात् नबमी। कार्तिकशुक्लपक्षीयनवम्याम्। दुर्गाया इयम् अण् ङीप्। दौर्गी तत्पूजयाङ्गनवमीतिथौ
“श्रावणी दौर्गनवमीदूर्वा चैव हुताशनी। पूर्वविद्धैव कर्तव्या शिवरात्रिर्बले-र्दिनम्” ति॰ त॰। तत्पूजाविधानादि योगिनीतन्त्रे यथा(
“कार्तिकेऽमलपक्षे च नवम्याञ्च विशेषतः। उद्बुद्धांतु जगद्धात्रीं पूजयेद् दीपमालया” तन्त्रान्तरे
“त्रिकालंपूजयेद्दुर्गां मनुनैकाक्षरेण (दुं ) च। नानावलिविधानेनगीतवाद्यपुरःसरम्। कार्तिकस्य सिते पक्षे नवम्याञ्चविशेषतः। कृत्वैवं साधकश्रेष्ठी लभेद्राज्यमकण्टकम्” कुब्जिकातन्त्रे
“कार्त्तिके शुक्लपक्षे तु नवम्यां जगद-म्बिकाम्। दुर्गां प्रपूजयेद् भक्त्या घर्मकामार्थसिद्धये। शक्तिसङ्गमतन्त्रे
“कार्तिकस्य सिते पक्षे नवम्यां जगदी-श्वरीम्। त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत्। निर्माय प्रतिमां शक्त्या जगद्धात्र्या विधानतः। पूज-यित्वा परदिने प्रतिमां तां विसर्जयेत्। एवं कृत्वा चक्रवर्त्ती भवेत् साधकसत्तमः। पुत्रपौत्रघनैश्वर्य्यसंयु-तास्य भवेत् पुरी। दासदासीगणैर्युक्तो मुक्तः स्यात्पापसङ्कटात्। विशेषतः वसुयुतां नवमीं प्राप्य सा-धकः। पूजयित्वा मृण्मयीं तां लमते वाञ्छितं फलम्” भविष्ये
“मासैश्चतुर्भिर्यत् पुण्यं विधिना॰॰ पूज्य चण्डि-काम्। तत् फलं लभते घीर! नवम्यां कार्तिकस्य च”। अधिकं जगद्धात्रीशब्दे
३०
०४ पृ॰ दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्गानवमी¦ f. (-मी) The ninth of the light half of Ka4rtik, sacred to DURGA4 as JAGADDHA4TRI form. E. दुर्गा, and नवमी the ninth.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्गानवमी/ दुर्गा--नवमी f. the ninth day of the light half of कार्त्तिक(sacred to -D दुर्गा) L.
