दुर्जनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्जनः, त्रि, (दुर्दुष्टो जनः । “कुगतिप्रादयः ।” २ । २ । १८ । इति समासः ।) खलः । इत्य- मरः । ३ । १ । ४७ ॥ (यथा, चाणक्यशतके । २४ -- २५ । “दुर्जनः प्रियवादी च नैतद्बिश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥ दुर्जनः परिहर्त्तव्यो विद्ययालङ्कृतोऽपि सः । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥”)
