दुर्जयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्जयः, पुं, (दुःखेन जीयतेऽसौ । जि जये + खल् ।) कार्त्तवीर्य्यराजवंशोद्भवानन्तपुत्त्रः । इति कूर्म्म- पुराणम् ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ९६ । “समावर्त्तो निवृत्तात्मा दुर्ज्जयो दुरतिक्रमः ॥” दानवविशेषः । यथा, महाभारते । १ । ६५ । २२ । “असिलोमा च केशी च दुर्ज्जयश्चैव दानवः ॥” राक्षसविशेषः । यथा, रामायणे । ३ । २९ । ३० । “तं दृष्ट्वा निःसृतं पूर्ब्बं राक्षसा अपि निःसृताः । दुर्जयः कालकाख्यश्च परुषः कालिकामुखः ॥”) त्रि, दुर्जेयः । (यथा, देवीभागवते । ५ । ८ । २२ । “वरदानेन धातुः स दुर्ज्जयो मधुसूदन ! ॥”)
