दुर्जातम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्जातम्, क्ली, (दुर्दुष्टं यथा तथा जातम् । प्रादि- समासः ।) व्यसनम् । (यथा, रघुः । १३ । ७२ । “दुर्जातबन्धुरयमृक्षहरीश्वरो मे पौलस्त एष समरेषु पुरः प्रहर्त्ता ॥”) असमञ्जसम् । इति त्रिकाण्डशेषः ॥ असम्यग्- जाते, त्रि । इति मेदिनी । ते, ११४ ॥ (यथा, महाभारते । १२ । २२४ । ३३ । “दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते ॥”)
