सामग्री पर जाएँ

दुर्द्दिनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दुर्द्दिनम्, क्ली, (दुर्दुष्टं दिनम् ।) मेघाच्छन्नदिनम् । इत्यमरः । १ । ३ । १२ ॥ (यथा, हरिवंशे । १६७ । १८ । “तुमुलं दुर्द्दिनञ्चासीत् सविद्युत्स्तनयिन्तुमत् । तद्दुर्द्दिनतलं भित्त्वा नारदः प्रत्यदृश्यत ॥” घनान्धकारः । यथा, कुमारे । ६ । ४३ । “यत्रौषधिप्रकाशेन नक्तं दर्शितसञ्चराः । अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः ॥”) वृष्टिः । यथाह साञ्जः । “घनान्धकारे वृष्टौ च दुर्द्दिनं कवयो विदुः ॥” (यथा, रघुः । ४ । ४१ । “द्बिषां विषह्य काकुत्स्थस्तत्र नाराचदुर्द्दिनम् । सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥” कुत्सितदिनम् ।) “सुदिनं दुर्द्दिनञ्चैव सर्व्वं कर्म्मोद्भवे भव । तत् कर्म्म तपसां साध्यं कर्म्मणाञ्च शुभाशुभम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ “यदच्युतकथालापरसपीयूषवर्जितम् । तद्दिनं दुर्द्दिनं मन्ये मेघाच्छन्नं न दुर्दिनम् ॥” इत्युद्भटः ॥ (दुर्द्दिनं वर्षः घनान्धकारो वा अस्त्यस्येति । अच् । वर्षयुक्ते घनान्धकारविशिष्टे च, त्रि । यथा, हरिवंशे । ६७ । ६६ । “सम्प्राप्ते दुर्द्दिने काले दुर्द्दिनं भाति वै नभः ॥” तथा, महाभारते । ८ । ९१ । २३ । “जीमूतैश्च दिशः सर्व्वाश्चक्रे तिमिरदुर्द्दिनाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दुर्द्दिनम्&oldid=140780" इत्यस्माद् प्रतिप्राप्तम्