दुर्ब्बल
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्ब्बलः, त्रि, (दुर्निन्दितं बलं यस्य ।) कृशः । तत्- पर्य्यायः । अमांरः २ छातः ३ । इत्यमरः । २ । ६ । ४४ ॥ क्षान्तः ४ शातः ५ शितः ६ अबलः ७ । इति शब्दरत्नावली ॥ (यथा, देवीभाग- वते । १ । ९ । ५६ । “सबलो जयमाप्नोति दैवाज्जयति दुर्ब्बलः ॥” शिथिलः । यथा, रघुः । ५ । १२ । “स्वार्थोपपत्तिं प्रति दुर्ब्बलाश- स्तमित्यवोचद् वरतन्तुशिष्यः ॥” दुश्चर्म्मा । यथा, मनुः । ३ । १५१ । “जटिलञ्चानधीयानं दुर्व्वलं कितवन्तथा । याजयन्ति च ये पूगांस्तांश्च श्राद्धेन भोजयेत् ॥”)
