दुर्भिक्षम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्भिक्षम्, क्ली, (भिक्षाया अभावः ।) भिक्षाया अप्राप्तिकालः । अकाल इति भाषा । यथा, “दुर्भिक्षमल्पं स्मरणं चिराय ।” इत्युद्भटः ॥ भिक्षायाः प्रायो निष्फलत्वमित्यव्ययीभावसमासः । यद्देशे यत्काले तद्देशतत्कालयोग्यशस्यादिकं न जायते तद्देशे तदा याच्यमानद्रव्यालाभात् दुर्भिक्षं जातमिति व्यवह्रियते सद्भिरिति । तत्- कारकवर्षाणि यथा, -- “राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैरुपपीडनम् । जानीयाद्बिग्रहं घोरं प्रमाथिनि वरानने ! ॥ १३ ॥ दुर्भिक्षं जायते घोरं सर्व्वोपद्रवसंयुतम् । अनावृष्टिः समाख्याता व्यये संवत्सरे प्रिये ! ॥ २० ॥ क्वचिद्बर्षति पर्ज्जन्यो देशे संछिन्नमण्डलः । दुर्भिक्षं सर्व्वरीवर्षे व्यवहारो विपर्य्ययः ॥ ३४ । दुर्भिक्षं जायते सर्व्वा मेदिनी दुष्यति प्रिये ! । प्लवे प्लवन्ति तोयानि पीडिता मानवा भुवि ॥ ३५ ॥ दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् । अनले च समाख्याता नात्र कार्य्याविचारणा ॥ ५० देशभङ्गः सुदुर्भिक्षं समासात् कथयाम्यहम् । पिङ्गले चारुपद्माक्षि ! दुर्भिक्षं नर्म्मदातटे ॥ ५१ ॥ दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो न वर्त्तते । भवेद्वै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते ॥ ५५ ॥ दुर्भिक्षं मरणं घोरं धान्यौषधिप्रपीडनम् । पापरोगो भवेद्देवि ! रक्ताख्येऽमरवन्दिनि ! ॥ ५८ ॥ रोगो मरणदुर्भिक्षं विरोधोपद्रवाकुलम् । क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये ! ॥ ५९ ॥ मेदिनी चलते देवि ! सर्व्वभूतं चराचरम् । देशभङ्गश्च दुर्भिक्षं क्षये सङ्क्षीयते प्रजा ॥ सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा । दुर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये ! ॥” ५० ॥ इति ज्योतिस्तत्त्वधृतषष्टिवर्षान्तर्गतवर्षविशेष- फलबोधकभविष्यपुराणीयवचनानि ॥ * ॥ अद्भुतेऽपि दुर्भिक्षं भवति यथा, -- “मांसास्थिनी समादाय श्मशानाद्गृघ्रवायसाः । श्वा शृगालोऽथवा मध्ये पुरस्य प्रविशन्ति चेत् ॥ विकिरन्ति गृहादौ च श्मशानं सा मही भवेत् । चौरेण हन्यते लोकः परचक्रसमागमः ॥ संग्रामश्च महाघोरो दुर्भिक्षं मरकन्तथा । अद्भुतानि प्रसूयन्ते तत्र देशस्य विद्रवः ॥ अकाले फलपुष्पाणि देशविद्रवकारणम् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ “तत्राशौचिभिक्षाग्रहणे दोषाभाव इति हार- लताप्रभृतयः ॥ कौर्म्मे । सद्यःशौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे । डिम्बाहवे हतानाञ्च विद्युता पार्थिवैर्द्बिजैः ॥ सद्यःशौचं समाख्यातं शापादिमरणे तथा ॥” इति शुद्धितत्त्वम् ॥ अपि च गारुडे २२६ अध्याये । “दुर्भिक्षयुक्तराष्ट्रे च मृतके सूतकेऽपि वा । नियमाश्च न दुष्यन्ति दानधर्म्मरतास्तथा ॥ दीक्षिताश्चाभिषिक्ताश्च व्रततीर्थपरास्तथा । दीक्षाकाले विवाहादौ देवद्रोण्यां निमन्त्रिते ॥ पूर्ब्बसङ्कल्पिते चापि नाशौचं मृतसूतके ॥”
