दुर्भृत्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्भृत्य¦ पु॰ दुष्टोऽसन् भृत्यः। भृत्यशब्दे वक्ष्यमाणभृत्य-गुणविहीने निन्द्ये भृत्ये तत्स्वरूपं शुक्रनीतिशास्त्र-परिशिष्टे
२ अ॰ उक्तं यथा(
“विपरीतगुणैरेभिर्भृतकोनिन्द्य उच्यते। ये भृत्या-हीनभृतिका ये दण्डेन प्रकर्शिताः। शठाश्च कातरालुब्धाः समक्षेऽप्रियवादिनः। मनोव्यसनिनश्चार्त्ता उत्-कोचेष्टाश्च देविनः। नास्तिकादाम्भिकाश्चैव सत्यवा-चोऽप्यसूयकाः। ये चापमानिता येऽसद्वाक्यैर्मर्मणिभेदिताः। रिपोर्मित्रसेवकाश्च पूर्ववैरानुबन्धिनः। चण्डाः साहसिका धर्महीना नैते सुसेवकाः। नीचोविवर्द्धितो राज्ञा राज्यनाशाय संभवेत्। वीर्य्याधिकोनीचकुली दुःसङ्गेन समेधितः। महाजनैः स्पर्द्ध-मानो हन्ति राष्ट्रं सराजकम्। सदर्थवदनर्थं तु सदर्थंत्वप्यनर्थवत्। कृत्वा स्ववुद्धिमाहात्म्यात् महा{??}-मपि निन्दति। वञ्चयित्वान्यसर्वस्वं विश्वामेनाह-रत्यलम्। स नीचस्तुद्गुणान् वक्तुं ब्रह्मापि खलु का-तरः। संक्षेपतस्तु कथितं सदसद्भृत्यलक्षणम्”।
