सामग्री पर जाएँ

दुर्म्मनास्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दुर्म्मनाः, [स्] त्रि, (दुर्दुष्टं मनो यस्य ।) चिन्ता- दिव्याकुलचित्तः । तत्पर्य्यायः । विमनाः २ अन्तर्म्मनाः ३ । इत्यमरः । ३ । १ । ८ ॥ (यथा, भागवते । १ । ६ । १९ । “रूपं भगवतो यत्तत्मनः कान्तं शुचापहम् । अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्म्मना इव ॥” शतावर्य्याम्, स्त्री । इति राजनिर्घण्टः ॥ (दुर्दुष्टं मनः इति विग्रहे । दुष्टचित्ते, क्ली । यथा, रामायणे । २ । ३१ । २० । “यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम् । प्राप्य दुर्मनसा वीर गर्व्वेण च विशेषतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दुर्म्मनास्&oldid=140802" इत्यस्माद् प्रतिप्राप्तम्