दुर्म्मुखः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्म्मुखः, पुं, (दुर्निन्दितं मुखं यस्य ।) वानर- विशेषः । (यथा, रामायणे । ४ । ३९ । ३३ । “अयुतेन वृतश्चैव सहस्रेण शतेन च । ततो यूथपतिर्वीरो दुर्म्मुखो नाम वानरः ॥”) नागभेदः । इति मेदिनी । खे, १० ॥ (यथा, हरिवंशे । ३ । ११४ । “कुहरः पुष्पदंष्ट्रश्च दुर्म्मुखः सुमुखस्तथा ॥”) अश्वः । इति हेमचन्द्रः । ३ । १५ ॥ (सर्पः । इति त्रिकाण्डशेषः । ३ । ३ । ५९ ॥) महिषासुर- सेनापतिविशेषः । यथा, मार्कण्डेये । ८३ । १९ । “दुर्द्धरं दुर्म्मुखञ्चोभौ शरैर्निन्ये यमक्षयम् ॥” (नृपविशेषः । यथा, महाभारते । २ । ४ । २१ । “संग्रामजिर्द्दुर्म्मुखश्च उग्रसेनश्च वीर्य्यवान् ॥” धृतराष्ट्रस्य पुत्त्रविशेषः । यथा, तत्रैव । १ । ११७ । ३ । “दुर्म्मर्षणो दुर्म्मुखश्च दुष्कर्णः कर्ण एव च ॥” राक्षसविशेषः । यथा, भागवते । ९ । १० । १८ । “रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ- धूम्राक्षदुर्म्मुखसुरान्तनरान्तकादीन् ॥” यक्षविशेषः । इति ब्रह्मपुराणम् ॥ गणपते- र्गणानामन्यतमः । यथा, महागणपति- स्तोत्रे । ११ । “षट्कोणाश्रिषु षट्सु षड्गजमुखाः पाशा- ङ्कुशाभीरवान्- बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्ममुञ्ज- त्विषः । आमोद्रः पुरतः प्रमोदसुमुखौ तं चाभितो दुर्म्मुखः पश्चात्पार्श्व गतोऽस्य विघ्न इति यो यो विघ्न- कर्त्तेति च ॥” वर्षविशेषः । यथा, ज्योतिषतत्त्वधृतभविष्य- पुराणवचनम् । “तुषधान्यक्षयो देवि ! सर्व्वशस्यमहार्षता । व्यवहाराश्च नश्यन्ति दुर्मुखे दुर्मुखाः प्रजाः ॥”)
दुर्म्मुखः, त्रि, (दुर्दुःखजनकं मुखं मुखनिःसृत- वचनादिकं यस्य ।) अप्रियवादी । तत्पर्य्यायः । मुखरः २ अबद्धमुखः ३ । इत्यमरः । ३ । १ । ३६ ॥ (अप्रियदर्शनम् । यथा, कथासरित्सागरे । १२ । ५२ । “चक्रे वसन्तकस्यापि रूपं दन्तुरदुर्मुखम् ॥”)
