दुर्य्योधन
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्य्योधनः, पुं, (दुर्दुःखेन युध्यतेऽसा । युध + “भाषायां शासियुधीति ।” युच् ।) स्वनाम- ख्यातकुरुवंशभवराजविशेषः । स धृतराष्ट्रज्येष्ठ- पुत्त्रः कुरुपाण्डवयुद्धे भीमेन हतः । तत्पर्य्यायः । कुरुराट् २ गान्धारेयः ३ सुयोधनः ४ । इति त्रिकाण्डशेषः ॥ (अयं कलेरंशेन पृथिव्या- मवतीर्णः । यथा, महाभारते । १ । ६७ । ८८-८९ । “कलेरंशस्तु संजज्ञे भुवि दुर्य्योधनो नृपः । दुर्ब्बुद्धिर्दुर्म्मतिश्चैव कुरूणामयशस्करः ॥ जगतो यस्तु सर्व्वस्य विद्बिष्टः कलिपुरुषः । यः सर्व्वां घातयामास पृथिवीं पृथिवीपते ! ॥”)
