सामग्री पर जाएँ

दुर्लभः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दुर्लभः, त्रि, (दुर्दुःखेन लभ्यते इति । दुर् + लभ + “ईषद्दुःसुष्विति ।” ३ । ३ । १२६ । इति खल् ।) दुष्प्रापः । इति मेदिनी । भे, १६ ॥ यथा, -- “दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेमकृत् सुतः । दुर्लभा सदृशी भार्य्या दुर्लभः स्वजनः प्रियः ॥” इति चाणक्ये । ५४ ॥ अतिप्रशस्तः । इति शब्दरत्नावली ॥ “सर्व्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । हरिद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥” इति कूर्म्मपुराणम् ॥ प्रियः । इति हेमचन्द्रः ॥

दुर्लभः, पुं, (दुर् + लभ + खल् ।) कच्चुरः । इति मेदिनी । भे, १६ ॥ कर्च्चूरः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ९६ । “दुर्ल्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥” “दुर्ल्लभतया दुर्ल्लभः । ‘जन्मान्तरसहस्रेषु तपोदानसमाधिभिः । नराणां क्षीणपापानां कृष्णभक्तिः प्रजायते ।’ इति वचनात् भक्त्या लभ्य इति भगवद्बचनाच्च ।” इति तत्र शाङ्करभाष्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=दुर्लभः&oldid=140815" इत्यस्माद् प्रतिप्राप्तम्