दुर्व्वासास्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्व्वासाः, [स्] पुं, (दुर्दुष्टं निगूढमित्यर्थः वास इव धर्म्मावरणत्वं यस्य । तथा च महाभारतवच- नम्- । “निगूढनिश्चयं धम्म यं तं दुर्व्वाससं विदुः ॥”) मुनिविशेषः । स अत्रिमुनिपुत्त्रः शङ्करांश- जातः । इति श्रीभागवतम् ॥ (यथा, विष्णु- पुराणे । १ । ९ । २ । “दुर्व्वासाः शङ्करस्यांशश्चचार पृथिवीमिमाम् ॥”) तत्पर्य्यायः । कुशारणिः २ । इति त्रिकाण्ड- शेषः ॥ तस्य भार्य्या और्व्वमुनिकन्या कन्दली । इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ (महा- देवः । यथा, महाभारते । १३ । १७ । ६२ । तस्य सहस्रनामकीर्त्तने । “साङ्ख्यप्रसादो दुर्व्वासाः सर्व्वसाधुनिषेवितः ॥” दुर्निन्दितं वासो वस्त्रं यस्य ।) मन्दवस्त्रयुक्ते, त्रि ॥ (यथा, ऋग्वेदे । ७ । १ । १९ । “मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै ॥”)
