दुर्व्विनीतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्व्विनीतः, पुं, (वि + नी + भावे क्तः । दुर्दुष्टं विनीतं विनयो यस्य । यद्वा, दुर् + वि + नी + क्तः ।) अविनीताश्वः । तत्पर्य्यायः । शूकलः २ । इति हेमचन्द्रः । ४ । ३०१ । अविनीतमात्रे, त्रि ॥ (यथा, पञ्चतन्त्रे । ५ । १७ । “कुपुत्त्रोऽपि भवेत् पुंसां हृदयानन्दकारकः । दुर्व्विनीतः कुरूपोऽपि मूर्खोऽपि व्यसनी खलः ॥”)
