दुर्हृत्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्हृत्, [द्] त्रि, (दुर्दुष्टं हृदयं यस्य । “सुहृ- द्दुर्हृदौ मित्रामित्रयोः ।” ५ । ४ । १५० । इति निपा- तनात् हृदयस्य हृद्भावः ।) शत्रुः । इत्यमरः । २ । ८ । १० ॥ (यथा, मार्कण्डेये । २६ । ३४ । “मित्राणामुपकाराय दुर्हृदां नाशनाय च ॥”) दुष्टचित्ते, त्रि । (यथा, महाभारते । ३ । ३१२ । १२ । “अश्मसारमयं नूनं ह्यदयं मम दुर्हृदः । यमौ यदेनौ दृष्ट्वाद्य पतितौ नावदीर्य्यते ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्हृत्¦ त्रि॰ दुस्थं हृदयमस्य प्रा॰ ब॰
“सुहृद्दुर्हृदौ मित्रा-मित्रयोः” पा॰ निपा॰।
१ अमित्रे शत्रौ। दुः-स्थितं हृदस्य प्रा॰ ब॰।
२ दुःस्थितहृदये त्रि॰
“अश्म-सारमयं नूनं हृदयं मम दुर्हृदः” भा॰ व॰
११
२ अ॰। तस्यभावः युवा॰ अण् द्विपदवृद्धिः दौहार्द्द दुष्टान्तःकरणत्वेशत्रुत्वे च न॰।
