सामग्री पर जाएँ

दुष्कृतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दुष्कृतम्, क्ली, (दुष्टं कृतम् ।) पापम् । इत्यमरः । १ । ४ । २३ ॥ तत्तु तत्कर्त्तुर्मरणानन्तरं तेन सह गच्छति । यथा, -- “गृहादर्था निवर्त्तन्ते श्मशानादपि बान्धवाः । सुकृतं दुष्कृतं लोके गच्छन्तमनुगच्छति ॥ तस्माद्बित्तं समासाद्य दैवाद्बा पौरुषादथ । दद्यात् सम्यक् द्विजातिभ्यः कीर्त्तनानि च कार- येत् ॥” इति वह्निपुराणे यमानुशासननामाध्यायः ॥ (दुष्टकृते, त्रि । यथा, महाभारते । ९ । ४३ । २० । “युष्माकञ्चाप्रसादेन दुष्कृतेन च कर्म्मणा । यत् पापं वर्द्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दुष्कृतम्&oldid=140860" इत्यस्माद् प्रतिप्राप्तम्