दुष्टसाक्षिन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुष्टसाक्षिन्¦ पु॰ कर्म॰। नारदाद्युक्ते असाक्षित्वप्रयोजकदोष[Page3650-a+ 38] युक्ते साक्षिणि। साक्षिणोदोषाश्च नारदेनोक्ताः यथा
“यस्त्वात्मदोषदुष्टत्वादस्वस्थ इव लक्ष्यते। स्थानात् स्था-नान्तरं गच्छेदेकैकञ्चानुधावति। कासत्यकस्माच्च भृशम-भीक्ष्णं निःश्वसित्यपि। विलिखत्यवनीं पद्भ्याम्बाहू वासश्चधूनयेत्। भिद्यते मुखवर्णोऽस्य ललाटं स्विद्यते तथा। शोषमागच्छतश्चोष्ठाबूर्द्ध्वं तिर्यङ्गिरीक्षते। त्वरमाणइवाबद्धमपृष्टो बहु भाषते। कूटसाक्षी स विज्ञेयस्तंवापं विनयेद्भृशम्”। अबद्धमसम्बद्धम्। विनयेच्छिक्षयेद्यथा कौटसाक्ष्याद्बिभेतीत्यर्थः। न तु दण्डयेदित्यर्थः। प्राकृतवैकृतिकविकारविवेकस्य दुःशक्यत्वात् सम्भावनामा-त्रेण च दण्डनस्यान्याय्यत्वादिति मिता॰ उक्तम्। मदन-रत्ने त्वाविद्धमिति पठित्वा आकुलमिति व्याख्यातम्। श-ङ्खलिखितावपि
“मन्त्रिभिः शास्त्रसामर्थ्याद्दुष्टलक्षणं ग्रा-ह्यन्तिर्यक्प्रेक्षते समन्तादेवावलोकयति। अकस्मान्मूत्रंपुरीषं विसृजति देशाद्देशं गच्छति पाणिना पाणिं पी-डयति नखान्निकृन्तति मुखमस्य विवर्णतामेति प्रस्वि-द्यति चास्य ललाटन्न चक्षुर्न्न च वाचं प्रतिपूजयत्य-कस्माद्ददाति, प्रशंसति पुनः पुनरन्यमपवदति बहिर्नि-रीक्षते शस्त्रं परामृशति शिरः प्रकम्पयत्यीष्ठौ निर्भुजतिसृक्कणी परिलेढि अतिविस्मितः कर्मस्वमहत्स्वपि भ्रुबौसंहरति तुष्णीं ध्यायति पूर्वोत्तरविरुद्धं व्याहरति एवमादिदुष्टलक्षणं क्रुद्धस्य च स्वामिनोऽन्यत्र प्रकृतिशी-लादिति” अकस्मादिति तूष्णीमिति च यथायोगमनेकत्रसम्बन्धनीयम्। अन्यत्र प्रकृतिशीलादिति। प्रकृत्याखभावात् शीलन्तिर्यक्प्रेक्षणादिधर्मो यस्य स तथोक्त-स्ततोऽन्यत्रैतानि दुष्टक्रुद्धलक्षणानि, एते अवान्तरवैल-क्षण्यस्य दुर्ज्ञेयत्वादित्यवधानेन परीक्ष्य वस्तुतत्त्वानुसर-णङ्करणीयमिति सूचितम्” वीरमिमुनिवाक्ये अन्येऽपि साक्षिदोषा असाक्षिलक्षणोक्त्यावीरमि॰ भङ्ग्यादर्शिता यथामनुः
“नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः। न दृष्टदोषाः कर्त्तव्या न व्याध्यार्त्ता न दूषिताः। न साक्षीनृपतिः कार्य्यो न कारुककुशीलवौ। न श्रोत्रियो नलिङ्गस्थो न सङ्गेभ्यो विनिर्गतः। आध्यधीनी नवक्तव्यो न दस्युर्न विकर्मकृत्। न वृद्धो न शिशुर्नैकोनाप्तो न विकलेन्द्रियः। नार्त्तो न मत्तो नोन्मत्तो नक्षुत्तृष्णोपपीडितः। न श्रमार्त्तो न कामार्त्तो न क्रुद्धोनुपि तस्करः” इति। अत्र सर्वैर्विशेषणैरसत्यसम्भावना[Page3650-b+ 38] विस्मरणादिकमसाक्ष्यनिमित्तमुपलक्ष्यते। अतएव वृद्धविकलेन्द्रियविकर्म्मकृत्तस्करादीनां गोवृषन्यायेन पुन-रुपादानम्। अत्र बहवः शब्दाः स्पष्टार्थाः। अन्येमेधातिथ्यनुसारेण विव्रियन्ते। अर्थसम्बन्धिन उत्तम-र्णाधमर्णाद्याः उत्तमर्णोह्यधमर्णवचनेन पराजीयमानस्तदानीमेव रोधाविष्टोऽधमर्णादृणं प्रत्यादातुं प्रयतेतेतितच्चित्तानुवृत्तिरधमर्णस्य तदनुगुणकौटसाक्ष्यहेतुत्वेन संभा-व्यते। उत्तमर्णो निर्धनेऽधमर्णे स्वसाक्षितया घनं प्राप्यस्वस्मै तदर्पयिष्यतीति बुद्ध्या तदनुगुणवादी सम्भाव्यते। तथार्थः प्रयोजनन्तत्सम्बन्धिनोर्वादिप्रतिवादिनोरन्यतर-स्माद् येषां स्वप्रयोजनं सिसाधयिषितन्तेऽप्युपकारगन्धान्नसाक्ष्यार्हा इत्यादि। सर्ठत्र कौटसाक्ष्यसम्भावनोन्नेया। दृष्टदोषा अन्यत्र कृतकौटसाक्ष्याः। व्याध्यार्त्ता वचनवि-संवादापादकव्याधिपीडावन्तः। दूषिता अभिशस्ताः। नृपतेरसाक्षित्वमकृताभिपायेणातो न प्राक्तननारदोक्तिविरोधः। लिङ्गस्थोऽपत्यादिः। सङ्गेभ्यो विनिर्गतःपरित्यक्तः पित्रादिगुरुजनसंसर्गात् वृद्धानुपसेवनादस्या-ऽसत्यसम्भावना। आध्यधीनो बन्धकीकृतः तस्य तदाज्ञा-वशवर्त्तित्वात्। वक्तव्यो निन्दास्पदम् विकर्मकृत् अधर्मा-भीरुः। वृद्धविकलेन्द्रिययोर्वार्द्धकस्वभावहेतुकेन्द्रियवैकल्येनभेदः। आर्त्तः शोकेन। नारदोऽपि
“दासनैःकृतिका-श्रद्धवृद्धस्त्रीबालचाक्रिकाः। मत्तोन्मत्तप्रमत्तार्त्त कितव-ग्रामयाजकाः। महापथिकसामुद्रबणिक्प्रव्रजितातुराः। व्यङ्गैकश्रोत्रियाचारहीनक्लीवकुशीलवाः। नास्तिकव्रा-त्यदाराग्नित्यागिनोऽयाज्ययाजकाः। एकस्थालीसहा-यारिचरज्ञातिसनाभयः। प्राग्दृष्टदोषशैलूषविषजीव्य-हितुण्डिकाः। गरदाग्निदकीनाशशूद्रापुत्त्रोपपातिनः। क्लान्तसाहसिकश्रान्तनिर्धूताग्न्यवसायिनः। भिन्नवृत्ता-समावृत्तजडतैलिकमूलिकाः। भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः। अघशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः। कुनखीश्यावदन् श्वित्री मित्रध्रुक्शठशौण्डिकाः। ऐन्द्रजालि-कलुब्धोग्रश्रेणी गणबिरोधिनः। वधकृच्चित्रकृत् शङ्खीपतितः कूटकारकः। कुहकः प्रत्यवसितस्तस्करो राज-पूरुषः। मनुष्यपशुमांसास्थिमघुक्षीराम्बुसर्पिषाम्। विक्रेता व्राह्मणश्चैव द्विजो वार्धुषिकश्च यः। च्युतःस्वघर्मात्कुलिकः सूचको हीनसेवकः। पित्रा विवद-मानश्च भेदकृच्चेत्यसाक्षिणः। श्रेण्यादिषु तु वर्गेषुकश्चिश्चेद्द्वेष्यतामियात्। तस्य तेभ्यो न साक्ष्यं[Page3651-a+ 38] स्याद्द्वेष्टारः सर्व एव ते”। नैकृतिकः परापकारशीलः। चाक्रिकस्तैलिकः। प्रमत्तः सदाऽनवहितः। महापथिकोमहापथगामी। सामुद्रबणिग्वहित्रवाही। एकः श्री-त्रियो द्वयोरननुमतः। एकः, श्रोत्रिय इति पृथग्वा प्रा-यश्चोक्तं च प्रागेव तत्। अपरार्केण तु युग्मैकेति पठित्वायुग्मौ ष्ट्वाविति व्याख्यातम्। एकस्थालीसहाय एक-पाकभोजीति। सहाय्यन्यतरसाहाय्यकारी, मिश्रचण्डे-श्वरौ। मदनरत्नाकरस्तु एकस्थालीः सहाय इतिविशेषणद्वयं पृथक्कृत्य एकस्थाली स्थाल्यधिकरणकःपाकोलक्ष्यते। स एको यस्येत्येकस्थालीति व्याचख्यौ। समासान्तविधेरनित्यत्वादेकस्थालीत्यत्र
“नद्यृतश्चेति” पा॰ नक्{??}प्। अर्द्धपिप्पलीत्यादिवन्न ह्रस्व इति च समादधे। अरिचरः भूतपूर्वः शत्रुः। भूतपूर्वे चरट्। कल्पतरौत्वस्त्रधर इति पठित्वा शस्त्रधर इति व्याख्यातम्। ज्ञा-तयः सगोत्राः सनाभयो मातुलतत्सुतमातृष्वस्रियादयः। शैलूषः स्त्रीणां नर्तयिता। कुशीलवस्तु रङ्गापजीवीनट इति भेदः। विषजीवी विषक्रयजीवीति मदनरत्ने। विषवद्योपजीवीति रत्नाकरे। अहितुण्डिकः सर्प-क्रीडोपजीवी व्यालग्राही। कीनाशः कर्कशः क्षुद्रा वा। कृपण इति तु मदनरत्न। उपपातित उपपातकीतिकल्पतरुः। मदनरत्ने तूपपातक इति पठितम्। उपसमीपं पातकं यस्येति विगृह्य पातकयुक्त इति व्या-ख्यातञ्च। क्लान्तोऽतिखिन्नः श्रान्तोऽनवरतकर्मका-रीति मदनरत्ने। अशान्त इति पठित्वाऽयीग्यकर्मका-रीति रत्नाकरे। निर्धूतो वान्धवैस्त्यक्त इति मदन-रत्ने। ग्रामराजकुलश्रेण्यादिभिर्निःसारित इति रत्ना-करे। मूलिकः लोकभयशून्य इति भवदेवः। मूलं विप्रल-म्भस्तत्कारीति तु युक्तम्। अपरार्केण तु पौपिक इतिपठित्वा पौपिकः पूपादिविक्रयीति व्याकृतम्। वर्षसू-चको वर्षशकुनवेदो। नक्षत्रसूचको ज्यौतिषिकः। अ-थशसी परकीयपापप्रकाशकः। हीनाङ्ग उचितपरिमा-णन्यूनाङ्गः। व्यङ्गस्तु छिन्नाङ्गुल्यादिरिति भेदः। भगवृत्तिर्भार्य्यादास्यादिसम्भोगशुल्कोपजीवी शङ्खी वृष-भनर्त्तनजीवीति मदनरत्नरत्नाकरयोः। कुहको दा-म्मिकः। प्रत्यवसितः प्रव्रज्यादिच्युतः। कुलिको राज्ञाव्यवहारपरिच्छेदकतया नियुक्तः। अस्य च साक्षित्व-करणे निषेधो, विधिस्तु कृतसाक्ष्य इति कल्पतरुः। मद-नरत्ने तु कुलं व्राह्मणादिगणस्तदधिकारी कुलिक इति[Page3651-b+ 38] व्याख्यातम्। सूचको राज्ञा परदोषान्वेषणपूर्वकं स्वस्मैतन्निवेदने नियुक्तः। भेदकृन्मित्रादिप्रीतिभङ्गकर्त्ता। श्रेण्यादिष्वित्यस्यायमर्थः। येषु श्रेण्यादिषु यस्यैकोऽपिद्वेष्यतां शत्रुतामाप्तस्तदीयविवादे तच्छ्रेण्यादिनिविष्टाःसर्व एव न साक्षिणस्तत्र हेतुर्द्वेष्टारः सर्वएव त इतितच्छ्रेण्यान्तर्गतैकद्वेष्यनुरोधकृतवैरनिर्यातनार्थमन्यथावा-दित्वसम्भवात्। अतएव नारदः
“बालोऽज्ञानादसत्यात्स्त्री पाप्याभ्यां स्याच्च कूटकृत्। विब्रूयाद्बान्घवः स्नेहा-द्वैरनिर्यातनादरिरिति”। कात्यायनः
“तद्वृत्तिजीविनोये च तत्सेवाहितकारिणः। तद्वन्धु सुहृदो भृत्या आ-प्तास्ते तु न साक्षिणः। मातृष्वसुःसुताश्चैव पितृष्वसृ-सुतास्तथा। मातुलस्य सुताश्चैव सोदर्यसुतमातुलाः। एते सनाभयः प्रोक्ताः साक्ष्यन्तेषु न योजयेत्। कुल्याःसम्बन्धिनश्चैव विवाह्यो भगिनीपतिः। पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा”। तथा वृहस्पतिः
“मातुपिता पितृव्यश्च भार्यायाभ्रातृमातुलौ। भ्राता सखाच जामाता सर्ववादेष्वसा क्षिणः। परस्त्रीपानसक्ताश्चकितवाः सर्वदूषकाः। उन्मत्तार्त्ताः साहसिका नास्ति-काश्च न साक्षिणः” इति। अत्र मातृष्वस्रादिशब्दानां स-म्बन्धिशब्दत्वादर्थिप्रत्यर्थिनोरन्यतरस्य एतादृशसम्बन्धिनोन साक्षिणः सम्बन्धिनि स्नेहादन्यत्र वैरसम्भवादितिध्येयम्। शङ्खलिक्षितौ
“शुल्कगुल्माधिकृतौ दूतो वेष्टि-तशिराः स्त्रियोगुरुकुलवासिनः परिव्राजकवानप्रस्थनि-र्ग्रन्थाः शङ्खिनः व्यालग्राहिणः” इति अत्राऽसाक्षिणःइति प्रकृतम् शुल्काधिकृतः शुल्कग्रहणस्थानाधिकारी। गुल्मः स्वस्थाननिवेशितः पदातिसमूहस्तदधिकृतः। वेष्टितशिराः उद्धतवेषोमूर्द्धव्याध्यभिभूतो वा इतरेप्रसिद्धा व्याख्याततराश्च। अनेन प्रपञ्चेन लोभादि-कमसाक्षित्वनिमित्तमेव व्यक्तीकृतम्। यथाह मनुः
“लोभान्मोहाद्भयात् क्रोधान्मैत्र्यात्कामात्तथैव च। अज्ञानाद्बालभावाच्च साक्षी वितथ उच्यत” इति।
