दुष्मन्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुष्मन्तः, पुं, (दुष् दोषवतीं मन्यते शकुन्तलामिति । दुष् + मन् + क्तः । निपातनात् साधुः ।) चन्द्र- वंशीयराजविशेषः । स ऐतिपुत्त्रः । तस्य पुत्त्रो भरतराजचक्रवर्त्ती । पत्नी शकुन्तला । इति श्रीभागवतम् ॥ (यथा, महाभारते । १ । ६८ । ३ । “पौरवानां वंशकरो दुष्मन्तो नाम वीर्य्यवान् । पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम् ! ॥” विवरणमस्य तदध्यायात् विस्तरशो द्रष्टव्यम् । दुष्यन्त इत्यपि पाठः ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुष्म(ष्य)न्त¦ पु॰
१ पौरवे भरतपितरि राजभेदे
“उपदानवीसुतान् लेभे चतुरस्त्वैलिकात्मजान्। दुष्मन्तमथ सुष्मन्तंप्रवीरमनघं तथा। दुष्मन्तस्य तु दायादो भरतो नामवीर्य्यवान्। स संर्वदमनो नाम नागायुतबलो महान्। चक्रवर्त्ती सुतोजज्ञे दुष्मन्तस्य महात्मनः। शकुन्तलायांभरतोयस्य नाम्ना स्थ भारताः। दुष्मन्तं प्रति राजानंबागुवाचाशरीरिणी। माता भस्त्रा पितुः पुत्रो येनजातः सएव सः। भरस्व पुत्रं दुष्मन्त! माऽवमंस्थाः श-कुन्तलाम्। रेतोधां पुत्र उन्नयति नरदेव! यमक्षयात्। त्वञ्चास्य धाता गर्भस्य सत्यमाह शकुन्तला” हरिव
३२ अ॰। अस्य शकुन्तलापरिवेदनकथा शकुन्तलाशब्दे दृश्या[Page3653-a+ 38] तुर्वसुवंश्यमरुत्तकन्यायां सम्मतायां संवत्तर्षेः जाते
२ नृपभेदे तत्कथा हरिवं॰
३२ अ॰। तुर्वसुवंशवर्णने यथा
“अन्वस्त्वाविक्षितो राजा मरुत्तः कथितस्तव। अनप-त्योऽभवद्राजा यज्वा विपुलदक्षिणः। दुहितासम्मता नाम तस्यासीत् पृथिवीपतेः!। दक्षिणार्थे तुसा दत्ता संवर्त्ताय महात्मने। दुष्मन्तं पौरवञ्चापिलेभे पुत्रमकल्मषम्। एवं ययातेः शापेन जरासंक्र-मणे तदा। पौरवं तुर्वसोर्वंशः प्रविवेश नृपोत्तम!। दुष्मन्तस्य तु दायादः करुत्थामः प्रजेश्वरः”। तस्यापत्यम्इञ् दौष्मन्ति भरते करुत्थामे च नृपभेदे
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुष्मन्त¦ m. (-न्तः) A prince of the lunar line, the husband of SAKUNTALA
4. E. दुर्, and झ affix, मुम्, aug; also read दुष्यन्त।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुष्मन्त w.r. for दुष्यन्तbelow.