दुह
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुह, इर् अर्द्दने । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-सेट् ।) इर्, अदुहत् अदोहीत । अर्द्दन- मिह वधः । इति दुर्गादासः ॥
दुह, ल ञ औ दुहि । इति कविकल्पद्रुमः ॥ (अदां- उभं-सकं-अनिट् ।) धुक् दोहनम् । तच्च व्यक्तीकरणमिति धातुपारायणिकाः । ञ ल, दोग्धि दुग्धे गां दुग्धं गोपः । स्वयं प्रदुग्धास्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनीति किराते वसूनीति कर्म्मणो विद्यमानतया कर्म्म- कर्त्तृत्वाभावात् स्खलितमित्येके । दुहादेरप्रधान- कर्म्मविषये कर्म्मकर्त्तृत्वे प्रधानकर्म्मप्रयोगो दुर्नि वारः । इति कुलचन्द्रः ॥ स्वमते तु अतएवा- नयोर्ढेऽपि ढवत्त्वमिति वचनात् पचदुहोः कर्म्मणि विद्यमानेऽपि कर्म्मकर्त्तृत्वम् । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुह¦ बधे भ्वा॰ पर॰ सक॰ सेट्। दोहति इरित् अदोहीत् अदुहत्। दुद्रोह दुहितः।
दुह¦ दोहने अन्तःस्थितद्रवद्रव्यस्याकर्षणेन बहिर्निस्मारणेउभ॰ अदा॰ द्विक॰ अनिट्। दोग्धि दुग्धे दुह्यात् अधोक्अदुग्ध। अधुक्षत् अदुग्ध अधुक्षन्त अधुक्ष्मह्नि अदुह्महिदुदोह। दुदोहिथ दुदुहिव दुदुहे। दुह्यात् धोक्ष्यति ते। दोग्धव्यं दुह्यं दोह्यम्। दोग्धा द्रोहनं दुग्धम्। दोग्धुम्दुग्ध्वा संदुह्य।
“यं सर्वशैलाः परिकल्प्य वत्सं मेरोस्थिते दोग्धरिंदोहदक्षे। भास्वन्ति रत्नानि महौषधीश्चपृथूपदिष्टां दुदुहुर्धरित्रीम्” कुमा॰
“यः पयो दोग्धि पा-षाणम्”
“पयोवटीध्रीरपि गा दुहन्ति” भट्टिः एक-कर्माविवक्षायाम् अस्यैककर्मकत्वमपि
“दुदोह यज्ञसिद्ध्यर्थमृग्मसुःसामलक्षणम्” मनुः
“दुग्ध्वा पयः पत्रपुटे मदीयम्” रघुः। निःसारणमात्रे च
“दुग्धेऽस्मै सर्वं कामं योवाचो दोहः” छा॰ उ॰
“न कर्मफलमाप्नोति योऽधर्मंदोग्धुमिच्छति” भा॰ व॰
११
६५ श्लो॰
“यत्र धर्मदुघाभूमिः सर्बकासदुघा सती। दोग्धि स्माभीप्सितानर्थान्यजमानस्य सर्वदा” माग॰
४ ।
१९ ।
७ दुधुक्षति। अस्यगौणकर्मणि ककारादि
“प्रधानकर्मण्याख्येवे त्वादी-[Page3653-b+ 38] नाहुर्द्विकर्मणाम्। अपधाने दुहादीनां ण्यन्ते कर्तुश्चकर्मणः” इत्युक्तेः।
“तेषु तेषु तु पात्रेषु दुह्यमानावसुन्धरा” हरिवं॰
८१ श्लो॰ अस्य कर्मकर्त्तरि गौणक-र्मणः कर्तृत्वविवक्षायाम् केवलं तङ् न यक्। गौःपयोदुग्धे। वा चिण्। अदोहि अधुक्षत अदुग्ध सि॰ कौ॰
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुह (औ) दुहौ¦ r. 2nd cl. (दोग्धि, दुग्धे) 3rd pers. plu. (दुहन्ति) To milk, (इर) दुहिर r. 1st cl. (दोहति)
1. To hurt, to afflict, to give pain.
2. To kill. अदा० उभ० द्विक० अनिट् | भ्वा० पर० सक० सेट् |
दुह¦ m. (धुक्) A milker. E. दुह्, and क्विप् aff.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुह mfn. id. ifc.
