सामग्री पर जाएँ

दुह्यु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दु(द्रु)ह्यु¦ पु॰ शर्मिष्ठायां जाते ययातिपुत्रभेदे।
“अन्वगृ-ह्णात् प्रजां सर्वां ययातिरपराजितः। तस्य पुत्रामहेष्वासाः सर्वे समुदिता गुणैः। देवयान्यां महाराज!शर्मिष्ठायाञ्च जज्ञिरे। देवयान्यामजायेतां यदुस्तुर्वसुरेव च। दुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे” मा॰आ॰

७५ अ॰ हरिवंशे तु

३० अ द्रुह्युरिति अणुरितिपाठः। लिपिकरप्रमादात् द्विधा पाठः
“तेषां ययातिःपञ्चानां विजित्य वसुधामिमाम्। देवयानीमुशनसः सुतांभार्य्यामवाप सः। शर्मिष्ठामासुरीञ्चैव तनयां वृषपर्वणः। यदुञ्च तुर्वसुञ्चैव देवयानी व्यजायत। द्रुह्युञ्चाणुञ्चपूरुञ्च शर्मिष्ठा वार्षपार्वणी”। तस्य राज्यदेशश्च तत्रैव अ॰ उक्तो यथा
“सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम्। व्यभ-जत् पञ्चधा राजा पुत्राणां नाहुषस्तदा। दिशि दक्षिणपृर्वस्यां तुर्वसुं मतिमासृपः। प्रतीच्यामुत्तरस्याञ्च द्रु-[Page3654-b+ 38] ह्युञ्चानुञ्च नाहुषः। दिशि पूर्वात्तरस्यान्तु यदुं श्रेष्ठंन्ययोजयत्। मध्ये पूरुञ्च राजानमभ्यषिञ्चत् स नाहुषः। तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना। यथाप्रदेशम-द्यापि धर्मेण परिपाल्यते”। तद्वंशवर्णनञ्च तत्रैव

३२ अ॰यथा
“द्रुह्योश्च तनयो राजन्! बभ्रुः सेतुश्च पार्थिवः। अङ्गारः सेतुपुत्रश्च मरुता पतिरुच्यते। यौवनाश्वेनसमरे कृच्छ्रेण निहतो बली। युद्धं सुमहदस्यासीन्मासान् परि चतुर्दश। अङ्गारस्य तु दायादो गान्धारीनाम पार्थिवः। ख्यायते यस्य नाम्ना वै गान्धारविषयोमहान्। गान्धारदेशजाश्चैव तुरगा वाजिनां वराः” तस्यपितुर्ययातेर्जराया अग्रहणे शापकथा भा॰ शा॰

८४ अ॰
“ययातिरुवाच।
“यत्त्वं मे हृदयाज्जातो वयः स्वं नप्रयच्छसि। तस्माद्द्रुह्यो! प्रियः कामो न ते सम्पत्स्यतेक्वचित्। यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च। हस्तिनां पीठकानाञ्च गर्दभानान्तथैव च। वस्तानाञ्च गवा-ञ्चैव शिविकायास्तथैव च। उडुपप्लवसन्तारो यत्र नित्यंभविष्यति। अराजशब्दभाजन्तं तत्र प्रापस्यसि सान्वयः”

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दुह्यु w.r. for द्रुह्यु.

"https://sa.wiktionary.org/w/index.php?title=दुह्यु&oldid=303815" इत्यस्माद् प्रतिप्राप्तम्