दूर्वाद्यघृत
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दूर्वाद्यघृत¦ न॰ चक्रदत्तोक्ते घृतभेदे तत्पाकविधिस्तत्रोक्तो यथा
“दूर्वा सोत्पलकिञ्जल्का मञ्जिष्ठा सैलवालुका। सिताशीतमुशीरञ्च मुस्तं चन्दनपद्मकौ। विपचेत् कार्षिकैरेतैः सर्पिराजं सुखाग्निना। तण्डुलाम्बु त्वजाक्षीरंदत्त्वा चैव चतुर्गुणम्। तत्पानं वमतो रक्तं प्लावनंनासिकागते। कर्णाभ्यां यस्य गच्छेत् तु तस्य कर्णेप्रपूरयेत्। चक्षुःस्राविणि रक्ते तु पूरयेत् तेन चक्षुषोः। मेढ्रपायुप्रवर्त्ते तु वस्तिकर्मसु योजयेत्। रोमकूपप्रवृत्तेतु तदभ्यङ्गे प्रयोजयेत्”।
