दूर्व्वा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दूर्व्वा, स्त्री, (दुर्व्वते दुर्व्व्यते वा । दुर्व्व हिंसायाम् + अच् घञ् वा । “उपधायाञ्च ।” ८ । २ । ७८ । इति दीर्घः ।) स्वनामख्यातघासः । तत्पर्य्यायः । शतपर्व्विका २ सहस्रवीर्य्या ३ भार्गवी ४ रुहा ५ अनन्ता ६ । इत्यमरः । २ । ४ । ५५८ ॥ तिक्तपर्व्वा ७ दुर्म्मरा ८ । बहुवीर्य्या ९ हरिता १० हरि- ताली ११ कच्छरुहा १२ ॥ शुक्लायाः पर्य्यायः । शतवीर्य्या १ गण्डाली २ शकुलाक्षकः ३ गोलोमी ४ । इति जठाधरः ॥ शतपर्व्वा ५ सितदूर्व्वा ६ सिता ७ । इति रत्नमाला ॥ नन्दा ८ महावरा ९ । इति शब्दरत्नावली ॥ (यथा, महाभारते । ३ । ११० । १७ । “कुशाकारेव दूर्व्वेयं संस्तीर्णेव च भूरियम् ॥”) अस्या गुणः । रक्तपित्तकण्डुत्वग्दोषनाशित्वम् । इति राजवल्लभः ॥
