दूर्व्वाष्टमी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दूर्व्वाष्टमी, स्त्री, (दूर्व्वा तद्रूपा गौरी तत्प्रिया अष्टमी ।) भाद्रशुक्लाष्टमी । तत्र कर्त्तव्यव्रतविधि- र्यथा, -- “ब्रह्मन् भाद्रपदे मासि शुक्लाष्टम्यामुपोषितः । दूर्व्वां गौरीं गणेशञ्च फलाकारं शिवं यजेत् ॥ फलव्रीह्यादिभिः सर्व्वैः शम्भुं नमः शिवाय च । अनग्निपक्वमश्नीयान्मुच्यते ब्रह्महत्यया ॥” इति संवत्सरकौमुदीधृतगरुडपुराणवचनम् ॥ * तद्व्रतप्रयोगविधिर्यथा, -- पूर्ब्बदिने संयमं विधाय तद्दिने प्रातः कृत- स्नानादिः आसने चोपविश्याचम्य ब्राह्मणान् स्वस्तिवाच्य सूर्य्यार्ध्यं दत्त्वा सङ्कल्पं कुर्य्यात् । विष्णुर्नमोऽद्य भाद्रे मासि शुक्ले पक्षे अष्टम्यां तिथावारभ्यामुकगोत्रा श्रीअमुकी मर्त्यलोकाधि- करणकसुखसौभाग्याविच्छिन्नपुत्त्रपौत्त्रादिलाभ- पूर्ब्बकब्रह्मलोकप्राप्तिकामा श्रीविष्णुप्रीतिकामा वा भविष्यपुराणोक्ताष्टावर्षनिष्पादितदूर्व्वाष्टमी- व्रतमहं करिष्ये । इति सङ्कल्प्य सूक्तं पठित्वा- सनशुद्ध्यादिकं विधाय गणेशादिदेवताः संपूज्य ध्यानं कुर्य्यात् । * । यथा, -- “नीलोत्पलदलश्यामं चतुर्ब्बाहुं किरीटिनम् । शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥ श्रीवत्सलक्षणोपेतं श्रिया वाण्या समन्वितम् ॥” इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा मानसैरुप- चारैः संपूज्यार्घस्थापनं कृत्वा पुनर्ध्यात्वावाह्य पाद्यादिभिः पूजयेत् । एतत् पाद्यं ओ~ कृष्णाय नमः । एवं क्रमेण संपूज्य आवरण- देवताः पूजयेत् । यथा ओ~ शच्यै नमः । एवं दुर्गायै गौर्य्यै श्रियै सरस्वत्यै गङ्गायै दित्यै अदित्यै सुषेणायै अरुन्धत्यै मन्दोदर्य्यै सुभ- द्रायै शाण्डिल्यै जयायै विजयायै रमायै दीक्षायै रेवत्यै दमयन्त्यै शीलायै सुकेशायै रम्भायै वासुदेवाय देवक्यै विष्णवे महादेवाय सर्व्वेभ्यो देवेभ्यः सर्व्वाभ्यो देवीभ्यः । ततो दूर्व्वां ध्यायेत् । * । ओ~ नीलोत्पलदलश्यामां सर्व्वदेवशिरोधृताम् । विष्णुदेहोद्भवां पुण्याममृतैरभिषिञ्चिताम् ॥ सर्व्वदैवाजरां दूर्व्वाममरां विष्णुरूपिणीम् । दिव्यसन्तानसंदात्रीं धर्म्मार्थकाममोक्षदाम् ॥ एवं ध्यात्वा षोडशोपचारैः पूजयेत् । इदमासनं ओ~ दूर्व्वायै नमः । एवं क्रमेण संपूज्य अष्टग्रन्थियुक्तडोरकं फलानि यज्ञोप- वीतादिकं दत्त्वा प्रणमेत् । “त्वं दूर्व्वेऽमृतनामासि पूजितासि सुरासुरैः । सौभाग्यसन्ततिं दत्त्वा सर्व्वकार्य्यकरी भव ॥ यथा शाखाप्रशाखाभिर्व्विस्तृतासि महीतले । तथा ममापि सन्तानं देहि त्वमजरामरम् ॥” ततो भोज्यमुत्सृजेत् । डोरकं वामहस्ते बद्ध्वा कथां शृणुयात् ॥ * ॥ सर्व्वतः सुखसौभाग्यपुत्त्रपौत्त्रादिभिर्युता ॥ मर्त्यलोके चिरं स्थित्वा चतुर्व्वर्गं गता पुनः । वसते रमया सार्द्धं यावच्चन्द्रदिवाकरौ ॥ मेघावृतेऽम्बरतले विशदे च पक्षे याश्चाष्टमीव्रतमदो नभसीह कुर्य्युः । दूर्व्वां तदक्षततिलैः प्रतिपूजयेयु- स्ताः प्राप्नुयुः सकलसिद्धिसमृद्धिमृद्धिम् ॥” इति भविष्योत्तरे दूर्व्वाष्टमीव्रतकथा समाप्ता ॥
