दूषकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दूषकः, त्रि, (दूषयतीति । दुष् + णिच् + “ण्वुल्- तृचौ ।” ३ । १ । १३३ । इति ण्वुल् ।) दोषोत्पादकः । तत्पर्य्यायः । पांसनः २ । इति त्रिकाण्डशेषः ॥ (यथा, मनौ । ९ । २३२ । “कूटशासनकर्त्तृंश्च प्रकृतीनाञ्च दूषकान् । स्त्रीबालब्राह्मणघ्नांश्च हन्याद्विट्सेविनस्तथा ॥”)
