सामग्री पर जाएँ

दूषितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दूषितः, त्रि, (दुष् + णिच् + क्तः ।) प्राप्तदोषः । (यथा, महाभारते । १ । १४० । २६ । “ततो बलमिति ख्यातं विज्ञाय दृढध्वन्विनाम् । दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु ॥”) मैथुनापवादयुक्तः । तत्पर्य्यायः । अभिशस्तः २ वाच्यः ३ क्षारितः ४ । इति हेमचन्द्रः । ३ । १०० ॥ आक्षारितः ५ । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=दूषितः&oldid=140947" इत्यस्माद् प्रतिप्राप्तम्