सामग्री पर जाएँ

दूषीविषम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दूषीविषम्, क्ली, (दूषयतीति । दूषि + बाहुलकात् ईः । ततः कर्म्मधारयः ।) औषधादिभिरवीर्य्यं विषम् । इति हेमचन्द्रः । ४ । ३८० ॥ आदि- पदात्दावाग्निवायुरौद्रशोषितविषम् । स्वभावतो गुणहीनं विषम् । अस्य गुणः । उदररोग- प्लीहगुल्मकुष्ठप्रमेहनाशित्वम् । इति राज- वल्लभः ॥ यथा, -- “जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा । स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति ॥” इति माधवकरः ॥

"https://sa.wiktionary.org/w/index.php?title=दूषीविषम्&oldid=140952" इत्यस्माद् प्रतिप्राप्तम्