दूष्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दूष्यः, त्रि, (दुष + णिच् + यत् ।) दूषणीयः । इति मेदिनी । ये, ३१ ॥ (यथा, महाभारते । १२ । १६५ । ३२ । “स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् । अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्म्मतः ॥” निन्द्यः । इति त्रिकाण्डशेषः । ३ । ३ । ३१३ ॥ यथा, कामन्दकीयनीतिसारे । ६ । ९ । “राज्योपघातं कुर्व्वाणा ये पापा राजवल्लभाः । एकैकशः संहता वा दूष्यांस्तान् परिचक्षते ॥”)
