सामग्री पर जाएँ

दृक्काण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दृक्काणः, पुं, द्रेक्काणः । इति ज्योतिषम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दृक्काण¦ न॰ ज्यो॰ उक्ते राशेर्दशांशरूपे तृतीयांशे द्रेक्काणे तथाच एकैकराशौ त्रंयो द्रेक्काणास्तेन द्वादशराशिषु

३६ द्रेकाणा भवन्ति मेषादिराशिस्थानां तेषां षट्त्रिंशतः-क्रमेण स्वरूपाणि वृहज्जा॰

३६ श्लोकैरुक्तानि यथा
“कट्यां सितवस्त्रवेष्टितः कृष्णः शक्त इवाभिरक्षितुम्। रौद्रः परशुं समुद्यतं धत्ते रक्तविलोचनः पुमान्

१ । रक्ताम्बराभूषणभक्ष्यचित्ता कुम्भाकृतिर्वाजिमुखी तृषार्त्ता। एकेन पादेन च मेषमध्ये दृक्काणरूपं यवनोपदिष्टम्

२ । क्रूरः कलाज्ञः कपिलः क्रियार्थी भग्नव्रतोऽभ्युद्यतदण्डहस्तः। रक्तानि वस्त्राणि बिभर्त्ति चण्डो मेषेतृतीयः कथितस्त्रिभागः

३ । कुञ्चितलूनकचा घटदेहा-दग्धपटा तृषिताशनचित्ता। आभरणान्यभिवाञ्छतिनारी रूपमिदं वृषभे प्रथमस्य

४ । क्षेत्रधान्यगृहधेनु-कलाज्ञो लाङ्गले सशकटे कुशलश्च। स्कन्धमुद्वहतिगोपतितुल्यं क्षुत्परोऽजदनो मलवासाः

५ । द्विपसमकायःपाण्डुरदंष्ट्रः शरभसमाङ्घ्रिः पिङ्गलमूर्तिः। अविमृग-लोभव्याकुलचित्तो वृषभवनस्य प्रान्तगतोयम्

६ । सूच्या-श्रयं समभिवाञ्छति कर्म नारी रूपान्विता भरणकार्य-कृतादरा च। हीनप्रजोच्छ्रितभुजर्तुमती त्रिभाग-माद्यं तृतीयभवनस्य वदन्ति तज्ज्ञाः

७ । उद्यानसंस्थःकवची धनुष्मान् शूरोऽस्त्रधारी गरुडाननश्च। क्रीडा-त्मजालङ्करणार्थचिन्तां करोति मध्ये मिथुनस्य राशेः

८ । भूषितो वरुणवद्बहुरत्नो बद्धतूणकवचः सधनष्कः। नृत्यवादनकलासु च विद्वान् काव्यकृन्मिथुनराश्यवसाने

९ । पत्रमूलफलभृद्द्विपकायः कानने मलयगः शरभाङ्घ्रिः। क्रोडतुल्यवदनो हयकण्ठः कर्कटे प्रथमरूपमुशन्ति

१० । पद्मार्चिता मूर्द्धनि भोगियुक्ता स्त्री कर्कशारण्यगताविरौति। शाखां पलाशस्य समाश्रिता च मध्ये स्थिताकर्कटकस्य राशेः

११ । भार्याभरणार्थसर्णवं नौस्थो गच्छतिसर्पवेष्टितः। हैमैश्च युतो विभूषणैश्चिपिटास्योऽन्त्यगतश्चकर्कटे

१२ । शाल्मलेरुपरि गृध्रजम्बुकौ श्वा नरश्चमलिनाम्बरान्वितः। रौति मातृपितृविप्रयोजितः सिं-हरूपमिदमाद्यमुच्यते

१३ । हयाकृतिः पाण्डुरमाल्य-शेखरो बिभर्ति कृष्णाजिनकम्बलं नरः। दुरासदःसिंह इवात्तकार्मुको नताग्रनासो मृगराजमध्यमः

१४ । [Page3662-a+ 38] ऋक्षाननो वानरतुल्यचेष्टो बिभर्त्ति दण्डं फलमामिषंच। कूर्ची मनुष्यः कुटिलैश्च केशैर्मृगेश्वरस्यान्तगतस्त्रि-भागः

१५ । पुष्पप्रपूर्णेन घटेन कन्या मलप्रदिग्धाम्बर-संवृताङ्गी। वस्त्रार्थसंयोगमभीष्टमाना गुरीः कुलंवाञ्छति कन्यकाद्यः

१६ । पुरुषः प्रगृहीतलेखनिः श्यामोवस्त्रशिरा व्ययायकृत्। विपुलं च बिभर्त्ति कार्मुकंरोमव्याप्ततनुश्च मध्यमः

१७ । गौरी सुधौताग्र्यदुकूल-गुप्ता समुच्छ्रिता कुम्भकटाहहस्ता। देवालयं स्त्री प्रयताप्रवृत्ता वदन्ति कन्यान्त्यगतन्त्रिमागम्

१८ । वीथ्यन्तरा-पणगतः पुरुषस्तुलावानुन्मानमानकुशलः प्रतिमानहस्तः। भाण्डं विचिन्तयति तस्य च मूल्यमेतद्रूपं वदन्ति यवनाःप्रथमं तुलायाः

१९ । कलशं परिगृह्य विनिःपतितुंसमभीप्सति गृध्रमुखः पुरुषः। क्षुधितस्तृषितश्च कलत्र-सुतान्मनसैति तुलाधरमध्यगतः

२० । विभीषयन् तिष्ठतिरत्नचित्रितो वने मृगान् काञ्चनतूणवर्मभृत्। फला-मिषं वानररूपभृन्नरस्तुलावसाने यवनैरुदाहृतः

२१ । वस्त्रै-र्विहीनाभरणैश्च नारी महासमुद्रात् समुपैति कूलम्। स्थानच्युता सर्पनिबद्धपादा मनोरमा वृश्चिकराशिपूर्वः। स्थानसुखान्यभिवाञ्छति नारी भर्तृकृते भुजगावृतदेहा। कच्छपकुम्भसमानशरीरा वृश्चिकमध्यमरूपमुशन्ति

२३ । पृथु-लचिपिटकूर्मतुल्यवक्त्रः श्वमृगवराहशृगालभीषकारी। अवति च मलयाकरप्रदेशं मृगपतिरन्त्यगतय्स वृश्चि-कस्य

२४ । मनुष्यवक्त्रोऽश्वसमानकायो धनुर्विगृह्याय-तमाश्रमस्थः। क्रतूपयोज्यानि तपस्विनश्च ररक्ष पूर्वोधनुषस्त्रिभागः

२५ । मनोरमा चम्पकहेमवर्णा भद्रासनेतिष्ठति मध्यरूपा। समुद्ररत्नानि विघट्टयन्ती मध्युअत्रि-भागी धनुषः प्रदिष्टः

२६ । कूर्ची नरोहाटकचम्पका-भोवरासने दण्डधरो निषण्णः। कौशेयकान्युद्वहतेऽ-जिनं च तृतीयरूपं नवमस्य राशेः

२७ । रोमचितोम-करोपमदंष्ट्रः सूकरकायसमानशरीरः। योक्त्रकजालक-बन्धनधारी रौद्रमुखो मकरप्रथमस्तु

२८ । कलास्वभि-ज्ञाब्जदलायताक्षी श्यामा विचित्राणि च मार्गभाणा। विभूषणालङ्कृतलोहकर्णा योषा प्रदिष्टा मकरस्यमध्ये

२९ । किन्नरोपमतनुः सकम्बलस्तूणचापकवचैःसमन्वितः। कुम्भमुद्वहति रत्नचित्रितं स्कन्धगं मक-रराशिपश्चिमः

३० । स्नेहमद्यजलभोजनागमव्याकुली-कृतमनाः सकम्बलः। कोशकारवसनोऽजिनान्वितो गृध्र-तुल्यवदनो घटादिगः

३१ । दग्धे शकटे सशाल्मले लो-[Page3662-b+ 38] हान्याहरतेऽङ्गना वने। मलिनेन पटेन संवृता भाण्डै-मूर्ध्निगतैश्च मध्यमः

३२ । श्यामः सरोमश्रवणः किरीटीत्वक्पत्रनिर्यासफलैर्बिभर्ति। भाण्डानि लोहैरति-मिश्रितानि सञ्चारयत्यन्तगतो घटस्य

३३ । स्रुग्भाण्ड-मुक्तामणिशङ्खमिश्रे व्याक्षिप्तहस्तः सविभूषणश्च। भार्या-विभूषार्थमपां निधानं नावा प्लवत्यादिगतो झषस्य

३४ । अत्युच्छ्रितध्वजपताकमुपैति पोतं कूलं प्रयाति जलधेःपरिवारयुक्ता। वर्णेन चम्पकमुखा प्रमदा त्रिभागोमीनस्य चैष कथितो मुनिभिर्द्वितीयः

३५ । श्वभ्रान्तिकेसर्पनिवेष्टिताङ्गोवस्त्रैर्विहीनः पुरुषस्त्वटव्याम्। चौरा-नलव्याकुलितान्तरात्मा विक्रोशतेऽन्त्योपगतो झषस्य

३६ । ” एतेषां स्वरूपोत्कीर्त्तनेन नष्टजातकोद्धारः तत्रैव दर्शितःतथा षट्पञ्चाशिकायां चौरस्वरूपविज्ञानमपि एतदनुसा-रेण कार्यमित्युक्तम् यथा
“अंशकाज् ज्ञायते द्रव्यं दृक्-काणैस्तस्करास्तथा”
“होरानवांशप्रतिमं विलग्नं लग्ना-द्रविर्यावति वा दृकाणे।
“तस्माद्वदेत्तावति वा विलग्नंप्रष्टुः प्रसूताविह शास्त्रमाह” वृहज्जा॰। राशिभेदे तद-धिपाश्च
“स्वपञ्चनवमानां ये राशीनामधिपाः ग्रहाः। तेद्रेक्काणाधिपा राशौ द्रेक्काणास्त्रयएव हि” ज्यो॰ त॰यथा मेषस्य स्वामी कुजः

१ द्रेक्काणेशः। तत्पञ्चम सिंह-राशेः स्वामी रविः स मेषस्य

२ द्रेक्काणेशःमेषतःनवमो धनुराशिस्तस्येशः जीवः मेषस्य

३ द्रेक्काणेशः एवंवृषादेरूह्यम्। द्रेष्काण द्रेक्काण द्रेकाणा अपि तत्रार्थे

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दृक्काण¦ m. (-णः) See दृकाण |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दृक्काण/ दृक्--काण m. See. दृकाण.

"https://sa.wiktionary.org/w/index.php?title=दृक्काण&oldid=305028" इत्यस्माद् प्रतिप्राप्तम्