दृग्गोल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृग्गोलः, पुं, खगोलान्तर्गतगोलविशेषः । यथा, “खस्वस्तिके चाधः स्वस्तिके चान्तःकीलकौ कृत्वा तयोः प्रोतं श्लथं दृङ्मण्डलं कार्य्यं तत् पूर्ब्ब- वृत्तभ्यः किञ्चिन्न्यूनं कार्य्यं यथा खगोलान्तर्भ्रमति यद्येक एव ग्रहगोलस्तदैकमेव दृङ्मण्डलम् । यो यो ग्रहो यत्र यत्र वर्त्तते तस्य तस्योपरि परि- भ्राम्येदमेव विन्यस्य दृग्ज्याशङ्कादिकं दर्श- नीयम् । अथवा पृथक् पृथगष्टौ दृङ्मण्डलानि रचयेत् । तत्राष्टमं वित्रिभलग्नस्य तच्च दृक्क्षेप- मण्डलं तस्मिन् खगोले ध्रुवचिह्नयोर्नलिकाद्बयं बद्ध्वा तन्नलिकाधारमेव खगोलाद्बहिरङ्गुलत्रया- न्तरे दृग्गोलं रचयेत् । कथितैः खगोलवृत्तै- र्व्वक्ष्यमाणैर्भगोलवृत्तैः क्रान्तिमण्डलाद्यैर्यो निब- ध्यते स दृग्गोलः । यतोऽग्रा कुज्यासमशङ्क्वा- द्यक्षक्षेत्राणि द्विगोलजातानि भगोलवृत्तानि खगोलवृत्तमिलितानि उत्पद्यन्ते गोलबन्धे सम्यङ्नोपलक्ष्यत इति दृग्गोलः कृतः ।” इति सिद्धान्तशिरोमणिः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृग्गोल¦ न॰ खगोलान्तर्गते गोलभेदे यथोक्तं सि॰ शि॰
“बद्ध्वा खगोले नलिकाद्वयं च ध्रुवद्वये तन्नलिकास्थमेव। बहिः खगोलाद्विदधीत धीमान् दृग्गोलमेवं खलु वक्ष्य-माणम्। भगोलवृत्तैः सहितः खगोलो दृग्गोलसंज्ञो-ऽपममण्डलाद्यैः। द्विगोलजातं खलु दृश्यतेऽत्र क्षेत्रंहि दृग्गोलमतो वदन्ति”।
“तस्मिन् खगोले ध्रुवचिह्नयो-र्नलिकाद्वयं बद्ध्वा तन्नलिकाधारमेव खगोलाद्बहिरङ्गुल-त्रयान्तरे दृग्गोलं रचयेत्। कथितैः खगोलवृत्तैर्वक्ष्य-माणैर्भगोलवृत्तैः क्रान्तिविमण्डलाद्यैर्यो निबध्यते सदृग्गोलः। कथमस्य दृग्गोलसंज्ञेति तदर्थमाह। द्वि-गोलजातमित्यादि। यतोऽग्राकुज्यासमशङ्क्वाद्यक्षक्षेत्राणिद्विगोलजातानि भगोलवृत्तैः खगोलवृत्तमिलितैस्ता-न्युत्पद्यन्ते। भिन्नगोलबन्धे सम्यङ्नोपलभ्यन्त इतिदृग्गोलः कृतः” प्रमि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृग्गोल¦ m. (-लः) A small circle on the axis of the earth, within the greater circle of the armillary sphere, and accompanying each planetary circle. E. दृश्, and गोल circle.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृग्गोल/ दृग्--गोल m. a small circle on the axis of the earth within the greater circles of the armillary sphere and accompanying each planetary circle W.