सामग्री पर जाएँ

दृढः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दृढः, त्रि, (दृह + क्तः । निपातनात् साधुः ।) स्थूलः । अतिशयः । प्रगाढः । (यथा, देवी- भागवते । १ । ६ । ३१ । “तदाकाशे श्रुतं ताभ्यां वाग्वीजं सुमनोहरम् । गृहीतञ्च ततस्ताभ्यां तस्याभ्यासो दृढः कृतः ॥”) बलवान् । इति मेदिनी । ढे, २ ॥ कठिनः । इत्यमरः । ३ । ३ । ४४ ॥

दृढः, पुं, रूपकभेदः । यथा, -- “दृढः प्रौढोऽथ खचरो विभवश्चतुरक्रमः । निशारुकः प्रतितालः कथिताः सप्त रूपकाः ॥” तल्लक्षणं यथा, -- “दृढाख्यः स्याल्लघुद्बन्द्बं ताले च हंसलीलके । चतुर्द्दशाक्षरैर्युक्तः शृङ्गारे परिकीर्त्तितः ॥” इति सङ्गीतदामोदरः ॥ (त्रयोदशमनो रौच्यस्य पुत्त्रविशेषः । यथा, हरि- वंशे । ७ । ८३ । “सुनेत्रः क्षत्त्रवृद्धिश्च सुतपा निर्भयो दृढः । रौच्यस्यैते मनोः पुत्त्रा अन्तरे तु त्रयोदशे ॥”)

"https://sa.wiktionary.org/w/index.php?title=दृढः&oldid=140980" इत्यस्माद् प्रतिप्राप्तम्