सामग्री पर जाएँ

दृढभूमि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दृढभूमि¦ पु॰ दृढा भूमिरवस्था यस्य। दीर्घकालनैरन्तर्यादरा-सेविते योगशास्त्रोक्ते मनसःस्थैर्य्यकरणार्थे अभ्यासभेदे
“तत्र स्थितौ यत्नोऽभ्यासः” पात॰ सू॰
“चित्तस्याऽवृत्तिकस्यप्रशान्तवाहिता स्थितिः प्रयत्नः वीर्यमुत्साहः तत्संपिपा-दयिषया तत्साधनानुष्ठानमभ्यासः” भा॰
“स तु दीर्घकाल-नैरन्तर्यसत्कारासेवितो दृढभूमिः” सू॰
“दीर्घकालासेवितःनिरन्तरासेवितः तपसा ब्रह्मचर्येण विद्यया श्रद्धया चसंपादितः सत्कारवान् दृढभूमिर्भवति। व्युत्थानसंस्का-[Page3667-b+ 38] रेणानभिभूतविषय इत्यर्थः” भा॰
“ननु व्युत्थानसंस्कारे-णानादिपरिपन्थिना प्रतिबद्धोऽभ्यासः कथं स्थित्यैकल्पत इत्यत आह स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः यथोक्तः सोयमभ्यासो विशेषेण एवसम्पन्नः सन् दृढावस्थो न सहसा व्युत्थानसंस्कारैरभि-भूतस्थितरूपविषयो भवति यदि पुनरेवंभूतमप्यभ्यासंकृत्वोपरमेत ततः कालपरिपाकेणाभिभवेत् तस्मिन्नोपर-न्तव्यमिति भावः” विवरणम्

"https://sa.wiktionary.org/w/index.php?title=दृढभूमि&oldid=305595" इत्यस्माद् प्रतिप्राप्तम्